SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ८२] हावंपरिभावयति, ज्ञानदर्शनचारित्रलाभैमिनुपकारिणमप्युपकुर्वतिभगवंतोऽमीसूरयस्तस्मादेतेष्ववश्यं विनयःकर्तुव्यः, “जस्स तियं वेनइयं पउंजे” इति वचनादेवं च पर्यालोच्य यः क्रियते विनयः, स कृतप्रतिकृतिरूपत्वात् कृतप्रतिकृतिमोक्षांगत्वाच्चावश्यं कर्तव्य इति अन्यच्च उत्सर्गतस्तावत् साधुभिः सर्वनिर्जरार्थंकर्तव्यं, केवलंकदाचिदशुभोपिभाव उपजायते,कबुर्मागतेर्विचित्रत्वात्ततोऽशुभभावोदयवशात् यद्यपि सर्वदा न निर्जरार्थं प्रवर्तते, तथाप्येष ममापि करिष्यतीति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यं, तथा चाह ‘कयपडिकितिविजुज्जइइत्यादि यद्यपि यत् वैयावृत्त्यं सर्वत्र सर्वेषु प्रयोजनेषु निर्जरानिमित्तं करोति तथापि कृतप्रतिकृतिरपि युज्यते कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्तव्यमितिभावः,साधूनांज्ञानादिपात्रतया विनयंस्थानत्वेन तेषु विनयस्य कल्याणपरंपराहेतुत्वात्। उक्तः कृतप्रतिकृतिरुपोविनयः ।सांप्रतमार्तगवेषणरुपविनयप्रतिपादनार्थमाह । [भा.८३/9] दव्वावईमाइसुंअत्तमणत्तेव गवेसणंकुणइ ।। वृ-द्रव्यापदिदुर्लभद्रव्य संपतौच तथाचभवतिके चित्देशेष्ववंत्यादिषुदुर्लभंघृतादिद्रव्यमिति, आदिशब्दात्क्षेत्रापदिपरिग्रहः, तत्रक्षेत्रापदिकांतारादिपतने,कालापदिदुर्भिक्षे,भावापदिगाढालानत्वे आर्त्तस्य पीडितस्य अत्यन्तसहिष्णुतया अनार्तस्य वा यथाशक्तियत् गवेषणं करोति, दुर्लभद्रव्यादि संपादयति, सआर्तगवेषणविनयः; संप्रति कालज्ञताविनयप्रतिपादनार्थमाह भा.८३/२] आहारादिपयाणं छंदंमिऊछठउ विनउ ।। वृ-षष्ठः कालज्ञतालक्षणो विनयः एष यदुतछंदंमिउइतितृतीयार्थे सप्तमीयथा तिसुतेसुअलंकिया पुहवी इत्यत्रततोऽयमर्थः छिंदसागुरुणामभिप्रायेणैवतुशब्दस्यैवकारार्थत्वात्आहारादिप्रदानं किमुक्तं भवति, यत् यस्मै प्रतिभासते तदिगिताकारादिभिरभिज्ञाय आचार्यप्लानोपाध्यायप्रभृतिनामकालक्षेप संपादयति, स एषकालज्ञताविनयः उक्तःकालज्ञताविनयः, संप्रतिसर्वत्रानुलोमतालक्षणंविनयमाह। [भा.८४] सामायारिपरुवणनिद्देसे चेव बहुविहे गुरुजो, । एमेयत्तितहत्तिय, सव्वत्थनुलोमयाएसा ।। वृ-गुरुणोइत्यत्रकतरिषष्ठी, गुरोः सामाचारीप्ररुपणेकिमुक्तंभवति, इच्छामिथ्यादिरुपायांतस्यां सामाचार्यां गुरुणा प्ररुप्यमाणायां एवमेतत् यथा भगवंतो वदंति नान्यथेति प्रतिपत्तिस्तथा बहुविधे बहुप्रकारे निर्देशे तत्कर्तव्यताज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्तव्यतया च प्रतिपत्तिरेषा सर्वापिसर्वानुलोमता नाम विनय उपसंहारमाह[भा.८५] लोगोवयारविनओ, इय एसोवन्नितोसपक्खंमि । आसज्ज कारणंपुन कीरइ जइणा विपक्रोवि ।। वृ-इति एवमुक्तेन प्रकारेण एष लोकोपचारविनयःस्वपक्षे सुविहितलक्षणे वर्णितः आसाद्य कारणं विपुनर्विपक्षेपि गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु एष लोकोपचारविनयाभ्यास वर्त्तित्वादिलक्षणो यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमानाबाधया च क्रियते, तदेवं कायवाङ्मनोलोकोपचारभेदतश्चतुःप्रकारः प्रतिरुपविनययुक्तः अथवा अन्यथा चतुःप्रकारः प्रतिरुपविनयस्तानेव प्रकारान् दर्शयति ।। [भा.८६] चहा वापडिरुवो तत्थेगनुलोमवयणसहियत्तं । पडिरुवकायकिरिया फासणसव्वानुलोमंच ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy