________________
३४
व्यवहार - छेदसूत्रम्-१. स कार्यनिमित्तको विनयः, पडिकित्तीचेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात प्रतिकृतिरुपत्वात्प्रतिकृतिस्त्र कार्यहतुकेप्रतिकृतिरुपेचविनये आक्षेपपरिहारीभाष्यकृतक्ष्याति,तथा द्रव्याद्यापत्सुआर्तस्य उपलक्षणमेतत्अनातस्यवागवेषणंदुर्लभद्रव्यसंपादनादिरुपमार्तगवेषणं,तथा कालं प्रस्तावमुपलक्षणत्वात् देशं च जानातीति कालज्ञस्तद्भावः कालज्ञता देशकालपरिज्ञानं तस्मिन सतिगुर्वादिच्छंदसागुर्वादिभ्यआहारादिप्रदानंकरोति,ततो विनयहेतुत्वात्तदपिदेशकाल परिज्ञानविनयः तथा सर्वेषु गुरुपदेशेष्वनुलोममप्रतिकुलतो सर्वानुलोम, च समुच्चये एप गाथासंक्षेपार्थः, व्यासार्थं तु भाष्यकृबिभणिषुः प्रथमतोभ्यासवर्त्तित्वं व्याख्यानयन्नाह[भा.७९] गुरुणोय लाभकंखी,अब्भासे वट्टतेसया ।
साहूआगारइंगिएहिं, संदिठ्ठो वत्ति काऊणं ।। वृ- गुरोरभ्यासे समीपे लाभकांक्षी, ज्ञानदर्शनचारित्ररुपपरमार्थलाभार्थी सदा साधुः प्रवर्तते, किमर्थमित्यत आह-आगारित्यादि आकारो नेत्रवक्त्रगतं, इंगितं चेष्टा ताभ्यां गुरोरभिप्रायमवगम्य तत्समीहितं कुर्तुसंदिष्टो चेतियत् किमपि गुरुणा संदिष्टः तद्वा कर्तुमिति, संप्रतिच्छंदोनुवर्तितामाह - भा.८०) कालसहावानुमया, अहारुवहीउवस्सयाचेव ।
नाउंववहरइतहा, छंदं अनुवत्तमाणोउ ।। वृ-आहारः पिंडः, उपधिः कल्पादिः, उपाश्रयो वसतिरेते कालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते, कालानुमताःस्वभावानुमताश्चकालानुमताये यस्मिन् काले सुखहेतुतयानुमताः तेकालानुमताः । प्रकृतिः स्वभावः सचार्थादिहगुरोः प्रतिगृह्यतेतदनुमताः तदनुकूलाः तान्तथा ज्ञात्वा च्छंदो गुरोरभिप्रायमनुवर्त्तमानो व्यवहरति संपादयति, एष च्छंदोनुवर्तिताविनयः, संप्रति कार्यहेतुके विनये परकृतमाक्षेपंमनस्याधाय परिहारमाह । [भा.८१] इहपरलोकासंसविमुक्कं कामं वयंति विनयंतु।
मोक्खाहिगारिएसुअविरुद्धो सोदुपक्ग्वेवि ।। वृ- ननु तीर्थकरैर्भगवद्भिरिहपरलोकाशंसाविप्रमुक्तविनयः कर्तव्यतयोपदिष्टस्ततः कथं साधूनां कार्यहेतुको विनयः ? उच्यते, काममिति अनुमते अवधृते ततोयमर्थः, यद्यपि नाम इह परलोकाशंसाविप्रभुक्तं कामं नियमाद्वदंति विनयं तथापि मोक्षाधिकारिषु मोक्षयोग्येष मोक्षपथज्ञानदर्शनचारित्रवत्स्वित्यर्थःस कार्यहतुकोपि विनयः द्वयो पक्षयोः समाहारेद्विपक्षं, तस्मिन्नपि साधुवर्गे चेत्यर्थःअविरुद्धोन विरोधमाकइयमत्रभावना कार्यहतुकोपिविनयः खलुसंग्रहादिकार्यार्थं संग्रहादि कार्यंच मोक्षांगमिति, सोपिमोक्षार्थिना कर्तव्योभगवदुपदिष्टत्वादिति, संप्रति कृत प्रतिकृत विनये तमेवाक्षेपमनस्याधायपरिहारमाह । - [भा.८२] एमेवय अनियाणं, वेयावच्चं तुहोइकायव्यं ।
कयपडिकित्ती विजुज्जइ, न कुणइ सव्वत्थ न जयइवि ।। वृ- यथा मोक्षांगतया कार्यहतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षांगतयैव कृतप्रतिकृतिरुपमपि वैयावृत्त्यं अनिदानं निदानं भोगप्रार्थना तद्रहितं भवति, कर्तव्यं अनिदानमिति, च विशेषणंमध्यग्रहणेदंडारिवाद्यंतयोरपि ग्रहणमितिन्यायात् पूर्व पश्चाच्चद्रष्टव्यं,तेन सर्वोपि विनयो मोक्षार्थिभिरनिदानः कर्त्तव्यः अथ कथं कृतप्रतिकृतिरुपस्य विनयस्य मोक्षांगता ? उच्यते सुशिष्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org