________________
३३
पीठिका - [भा. ७३]
वृ-तदपि हितं मितंचभणति अपरुषमनिष्टुरमेतदेव व्याचष्टे मृदुकं कोमलं कथंभूतमित्याह: हृदयं गृह्णाति हृदये सम्यग्निवे शिते इत्येवंशीलहृदयग्राहः तथा सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतृमनसां प्रीतिकारि सुपेशलं, तथा नवनमुखाभ्यां विकसन् तथा कथंचनापि भणति, यथा स्नेहमिवांतरप्रतिबद्धभिव साक्षादुगिरन् प्रकटीकुर्वन् प्रतिभासते, इत्थंभूतो वक्ता अपरुषभासी, संप्रत्यनुचिंत्यभाषित्वप्रतिपादनार्थमाह ।। [भा.७४) तंपुन विरहे भासइनचेव ततोऽपभासियं कुणइ ।
जोएइतहा कालं, जहवुत्तं होइसफलंतु ।। वृ-तत्पुनर्हितं मितपरुषं च भाषते, अविरहे विरहाभावे समक्षमित्यर्थः, न पुनस्ततो विरहादन्यत्र परोक्षे अपभाषितं दुष्टभाषणं करोति विरुपंभाषते इत्यर्थः, तथा जोएइति देशीवचनमेत निरूपयति कालं प्रस्तावं यथाप्रस्तावोचिततया उक्तंभणितंसफलंभवति ।। [भा.७५] अमियं अदेसकालेभावियमिव भासियं निरुवयारं ।
आपत्तीवि नगिण्हइ, किमंग पुन जोपमाणत्थो । ! वृ-अमितंप्रभूताक्षरं, तथा अदेशकालेभावितमेवेतिदेशकालाभ्यामभावितमिव नदेशोचितंनापि कालोचितमिति भावः, अत एव निरुपकारी देशकालानुचिततया ततोलेशतोपि परस्योपकारायोगात एवंरुपंभाषितमायत्तोपिस्वक्शगोऽपिनगृह्णाति, नादेयबुद्धया श्रृणोति किमंग पुनः प्रमाणस्थो मान्य इति । [भा.७६) पुव्वं बुद्धीए पासित्तातत्तो वक्कमुदाहरे |
अचक्खुयोवनेयारं, बुद्धिं अन्नेसए गिरा ।। वृ- प्रामुक्तप्रकारण पूर्व बुद्धया प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृत्त्या सम्यगुपादेयत्वायोगात्तथाचाहअचक्षुष्कइवांधक इवनेतारमाकर्षयितारंबुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ना अनुविचिंत्यभाषी, उक्ती वाचिको विनयः संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह - [भा.७७] मानसिओ पुन विनओ दुविहो उसमासओमुनीयव्यो ।
अकुसलमनोनिरोही कुसलमनउदीरणंचेव ।। वृ- मानसिकः पुनर्विनयः समासतः संक्षेपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति,अकुशलस्य आर्तध्यानाधुपगतस्यमनसो निरोधः,अकुशलमनोनिरोधःकुशलस्य धर्मध्यानाधुत्थितस्य मनसाउदीरणं, चसमुच्चये एवकारो अवधारणेएतावेव द्वौ भेदौ नान्याविति ।
उक्तो मानसिकोपि विनयः, सांप्रतमापैचारिकसप्तविधविनयप्रतिपादनार्थमाह - {भा.७८] अब्भासवत्ति छंदोनुवत्तिया कज्जपडिकित्तीचेव,
अत्तगवेसणकालोनुयायसव्वानुलोमंच ।। वृ- गुरोरभ्यासे समीपे वर्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकार्पत्यासन्नवर्तीति भावः छंदो गुरुणामभिप्रायस्तमनुवर्तते, आराधयतीत्येवंशीलः, छंदोनुवर्ती तद्भाव: छंदानुवर्तिता, तथा कार्ये कार्यनिमित्तंतृतीयोविनयः किमुक्तंभवतिसंग्रहमुपसंग्रहवामे करिष्यतीत्येवंबुद्ध्यायोविनयः क्रियते [20]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org