________________
- ३५२
[ भा. ११७८ ]
तहवि अहंते ठवियं विभीसणा ववहारनिक्खमंतेनं । तं घेतूणं निज्जइ तरस सइए इमं कुज्जा
वृ- तथापिच एवमपि वानुशासने कथने च कृते इत्यर्थः अतिष्ठति स्थापितं च देयं भीषणंवा करणीयं व्यवहारे वा समाकर्पणीयः । तत्रस्थापितंभावयति । तेन पित्रा निष्क्रामयता किमपिस्थापितं द्रव्यमस्ति तत् गृहीत्वा तस्मै दातव्यम् उपलक्षणमेतत्, तेनेदं द्रष्टव्यमभिनवः कोऽपि शैक्षक उपस्थितः । तस्य यत् किमप्यर्थजातं स्थापितमस्ति । वदि वा गच्छान्तरे यः कोऽपि शैक्षिक उपस्थितस्तस्य हस्ते यत् द्रव्यमवतिष्ठते तद्गृहीत्वा तस्मै दीयते । तस्य द्रव्यस्यासति अभावे इदं वक्ष्यमाणं कृर्यात् । तदेवाह[ भा. ११७९] नियल्लगाण तस्य व भीसणं राउले सयं वावि । अवरिक्कामी अम्हे कहं व लज्जा न तुज्झति ।। ववहारेण अहयं भागं पिच्छामि बहुतरागं स । अच्चिय लिंग व करे पन्नवणा दावणड्डाए ।।
[ भा. ११८० ]
1
वृ- निजकानामात्मीयानां स्वजनानां भीषणं कर्तव्यं । यथा वयमविरिक्ता अविभक्तरिक्ता वर्तामहे । ततो मोचयत मदीयं पुत्रं, कथं वा कारणेन युष्माकं न लज्जा अभूत्ततो यदेवं मदीयपुत्रो दासत्वमापन्नोऽद्यापीह धृतो वर्तते । अथैवमप्युक्ते ते द्रव्यं न प्रयच्छन्ति । तत इदमपि वक्तव्यं राजकुलं गत्वा व्यवहारेणाप्यहं भागं बहुतरकं प्रभूततरकं ग्रहीष्यामि भवतां पार्श्वे तद्वरमिदानीं स्तोकं प्रयच्छ्थ, एवं तेषां भीषणं कर्तव्यम् । यदि वा येन गृहितो वर्तते तस्य भीषणं विधेयं यदि मोचनीयं मर्हि मोचय । अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भीषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजनाः किमपि न प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः । व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यदि वा स एव राजकुले व्यवहारेणाकृष्यते तत्र च गत्वा वक्तव्यं यथाऽयमृषिपुत्री व्रतं जिघृक्षुः । केनापि कपटेन धृतो वर्तते यूयं च धर्मव्यापारनिष्पन्नाः ततो यथायं धर्ममाचरति यथा वामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति । अस्यापि प्रकारस्याभावे यत् यत्र लिङ्गमर्चितं तत्परिगृह्णाति । परिगृह्यं दापनार्थं, विवक्षित बालक मोचनार्थमित्यर्थः । तल्लिङ्गधारिणां मध्ये ये महान्तस्तेषां प्रज्ञापना कर्तव्या । येन ते मोचयन्ति सम्प्रति दूराभोगेत्यादि व्याख्यानार्थमाह
[ भा. ११८१ ]
व्यवहार- छेदसूत्रम् - १२/५२
पुट्ठा वा अपुट्ठा वा चुवसामिनिहिंकहि ति तो दाही । घेत्तूण जाव दट्टा पुनरवि सा रक्खणा जयणा ।।
बृ- यदि वा अवध्यादयो अवधिज्ञानेन आदिशब्दात् विशिष्ट श्रुत ज्ञानिपरिग्रहः पृष्टा वा अपृष्टा तथाविधं तस्य प्रयोजनं ज्ञात्वा च्युतस्वामिकं निधिमुत्स (च्छ) न्नस्थामिकं निधिं कथयन्ति । तदानीं यस्य तेषां तत्कथनकस्योपचितत्वात् ततो यावदर्थः यावता प्रयोजनं तद्गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यं, प्रत्यागच्छता च यतना विधेया । सा चाग्रे स्वयमेव वक्ष्यते
[ भा. ११८२ ]
सोऊण अडजायं अट्ठ पडिजग्गए आयरिओ ।
संघाडगं च देति पडिजग्गइणं गिलाणंपि ।।
वृनिधिग्रहणाय मार्गे गच्छन्तमर्थजातंसाधुं श्रुत्वा सांभोगिकीऽसांभोगिको वाचार्योर्थ प्रतिजागर्ति उत्पादयति । यदि पुनस्तस्य द्वितीयः संघाटको न विद्यते ततः सङ्घाटकमपि ददाति । अथ कथमपि स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International