________________
३४२
व्यवहार - छेदसूत्रम्-१-२/४५ [भा.११३०] तद्दव्वस्स दुगंच्छेण दिलुतो भावणो असरिसेणं ।
पगयंमि पनवेत्ता, विज्जादिविसोहिजा कम्मं | वृ-यतोदुर्लभद्रव्यंभक्तक्षीरादितेनलब्धतस्यद्रव्यस्यजुगुप्सनं क्रियते यथानेदमतिशोभनममुको वाऽस्यदोष इत्यादि । यदिवा दृष्टान्तोऽन्येनापीदृशमानीतमितिप्रदर्शनं क्रियते । तस्य दृष्टान्तस्यभावना असदृशेन तस्मात् शतमानेन सहस्त्रभागेन वा यो हीनस्तेन कर्तव्या । तथा पगयंमीत्यादि प्रकृते अवमतस्स्य विशिष्टेप्रासादादिकेसम्पाद्येतथाविधं श्रावकमितरंवाप्राप्य तदभावेकस्यापिमहर्द्धिकस्य विद्यादि । आदिशब्दात् मन्त्रचूर्णादिपरिग्रहः यावत् कर्मापि कार्मणमपि प्रयुज्य ततोऽयमतरस्य विशिष्टप्रासादादिसम्पादनेनेतरस्यापभ्राजना सम्पादनीया येन प्रगुणो भवति । ततः पश्चाद्विद्यादिप्रयोगजनितपापविशुद्धये विशोधिः प्रायश्चितं प्रतिपत्तव्येतिसाम्प्रतमेतदेव विवरीषुराह[भा.११३१] उक्कोसबहुविहीयं आहारोवगरणफलगमादीयं ।
खुड्डेणोमतरेणं आनीतीभामि(यि)तो पडणो ।। वृ- उत्कृष्टं बहुविधिकंबहुभेदमाहारंभक्तक्षीरादिकमुपकरणकम्बलरत्नप्रभृति, फलकंचम्पकपट्ट तिनिसपट्टादिकमादिशब्दः स्वगतानेकभेदसूचकःतथाविधश्राद्धप्रज्ञापनेन विद्यादिप्रयोगेनवा सम्पाद्य क्षुद्रेण क्षुल्लकेन गुणतोऽवमतरेण शतभागसहस्त्रभागादिना हीनेन आनीतमुपदर्श आनीतमुपदर्य सोऽपभ्राजितः क्रियते । ततः प्रगुणोभवतिप्रासादादि विषये यतनामाह[भा.११३२] आदिठ्ठसद्दकहणं आउट्टाअभिनवोयपासाओ ।
कयमेत्तेय विवाहे सिद्धादिसुया कइयवेणं ।। वृ-यस्तेन श्राद्धोनदृष्टोऽदृष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्यकथनं प्रज्ञापनाउपलक्षणमेतत् ।महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणं वा ततस्ते आवृत्ताः सन्तस्तस्य लब्ध्यभिमानिनः समीपमागत्य ब्रुवते वयमेते क्षुल्लकेनप्रज्ञापितास्ततोऽभिनव एवकृतमात्रएव वावधारणेप्रासादोदत्तः तथाकैतवने कपटेन सिद्धादिसुतः सिद्धपुत्रादिसुताः कृतमात्रएवविवाहे उत्पादनीयाः इयमत्र भावना-सिद्धपुत्रादिकेषु प्रज्ञापनमितरस्य प्रज्ञापनं विद्यादि प्रयोगं वा कृत्वा तत्सुताः कृतमात्रवीवाहा एव व्रतार्थ तत्समक्षमुपस्थापनीया येन तस्यापभ्राजनोपजायते । तत पश्चात् शकुनादिवैगुण्यमुद्भाव्य ते मुच्यते यदिनस्यात्तात्विकी व्रतश्रद्धेति वायंकाऊण वेत्यत्रयतनामाह[भा.११३३] चरगादिपन्नवेउपुव्वंतस्स पुरतो जिनर्वेति ।
. उमतरागेण ततोपगुणत्तिओभामितीएवं ।। वृ- चरकादिकं प्रचण्डं परवादिनमधःकृतसाधोवदिनासाध्यं पूर्वं प्रज्ञाप्य प्ररूपितस्याधिकृतस्य वादाभिमानिनः साधोः पुरतो अवमतरेण चरकादिकं जापयन्ति । वरवृषभास्ततः स एवमपभ्राजितः सन् प्रगुणायतेप्रगुणीभवति ।
मू.(४६) जक्खाविठं भिक्खु गिलायमाणं नो कप्पइ, तस्सगणावच्छदियस्स निहितए जाव रोगातंकातो विप्पमुक्को ततो पच्छा तस्सअहालहुस्सगं नामं ववहारते पठ्ठवियव्वे सियाइति ।
वृ-अथास्यसूत्रस्य पूर्वसूत्रेणसम्बन्ध उच्यते[भा.११३४] पोग्गलअसुभसमुदतो एसणागंतुको दुवेण्हपि ।
जक्खावेसेणंपुन नियमाआगंतुगो होइ ।। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org