________________
उद्देशक : २, मूलं : ४४, [भा. ११०० ]
३३७
शुद्धिमात्रनिमित्तं प्रायश्चित्तं दातव्यं ततस्तस्य प्रायश्चित्तस्य लघुकस्वरूपस्य गाथायां सप्तमी षष्ठ्यर्थे भवति । प्रस्थापनादानमिति सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदाना भावं भावयतिबड्ढति हायति उभयं, अवट्टियं च चरणं भवे चहा । खइयं तो वसमियं मीस अहखायखित्तं च ।।
[ भा. ११०१]
वृ- कस्यापि चारित्रं वर्धते, कस्यापि हीयते कस्यापि वर्धते हीयते च, कस्याप्यवस्थितं वर्तते । एते चत्वारो भङ्गाश्चारित्रस्य । साम्प्रतममीषामेव चतुर्णां भङ्गानां यथासंख्येन विषयान् प्रदर्शयति । खइयमित्यादि क्षपक श्रेणिं प्रतिपन्ने क्षायिकं चरणं वर्तते, उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणहानिमुपगच्छति । क्षायोपशमिकं तद्रागद्वेषात्कर्षापकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं क्षिप्तं च पदैकदेशे पदसमुदायोपचारात क्षिप्तचित्तं चारित्रं चावस्थितं यथाख्यातचारित्रे सर्वथा रागद्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेस्ततो रागद्वेषाभावात्तदेवं । यतः क्षिप्तचित्ते चारित्रमवस्थितमतो ना सौ प्रायश्चित्तभागिति, पर आहननु सक्षिप्तचित्त आश्रवद्वारेषु चिरकालं प्रवर्तितः बहुविधं वाऽसमंजसं तेन प्रलपितंलौकलोकोत्तरविरुद्धं च समाचरितं । ततः कथमयमप्रायश्चित्तभाक्, अत्र सूरिग्रह
[भा. ११०२]
कामं आसवदारेसु बह्नितो पलवियं बहुविहंच । लोगविरुद्वाय एया लोगोत्तरियाय आइणा ।।
वृ- काममित्यनुमतौ अनुमतमेतत् यथा स आश्रवद्वारेषु प्रवर्तितो बहुविधं च तेन प्रलपितं लोकविरुद्धानि लोकोत्तरिकानि च पदानि आचीर्णानि प्रतिसेवितानि
[भा. ११०३]
नय बंध विगलित्तणेण कम्मस्स उवचओ होइ ।
लोकोविएत्थ सक्खी जह एस पव्वसो कासी ।।
वृ- तथापि न च नैव तस्य च क्षिप्तचित्तस्य बन्धहेतुविकलत्वेन बन्धहेतवो रागद्वेषास्तद्विकलत्वेन तद्रहितत्वेन कर्मण उपचयो भवति-कर्मोपचयस्य रागद्वेषाधीनत्वात् तस्य च रागद्वेषविकलत्वात् न च तद्रागद्वेष विकलत्वं वचनमात्र सिद्धं, यती लोकोऽप्यत्रास्मिन् विषये साक्षी यथा एष सर्वं परवशोऽकार्षीदिति । ततो रागद्वेषाभावान्नकर्मोपचयस्तस्य तदनुगत्वात् । तथा चाहरागद्दोसानुगया जीवा कम्मस्स बंधगा होंति । रागादि विसेसेाय विबंध विसेसो वि अविगीतो ।
[ भा. ११०४ ]
वृ- रागद्वेषाभ्यामनुगताः सन्तो जीवाः कर्मणीबन्धका भवन्ति । ततोरागद्वेषतारतम्येन बन्धविशेषो बन्धतरतम भावोऽविगीतो विप्रतिपन्नः । ततः क्षिप्तचित्तस्य रागद्वेषाभावतः कर्मोपचयाभावः । अमुमेवार्थं दृष्टान्तेन दृढयति
[भा. ११०५ ]
कुणमाणी विथ चिड्डा परतंताण द्विया बहुविहाओ । किरियाफलेण जुज्जइ, न जहा एमेव एवं पि ।।
वृ- यथा नर्तकी यन्त्रकाष्टमयी परतन्त्रा परायत्ता परप्रयोगत इत्यर्थः । बहुविधा बहुप्रकारा अपि, तुशब्दोऽपि शब्दार्थः । चेष्टा कुर्वाणा क्रियाफलेन कर्मणा न युज्यते । एवमेव अनेनैव प्रकारेण एवमपि क्षिप्तचित्तमनेका अपिविरुद्धाः क्रियाः कुर्वाणः न कर्मोपचयं पश्यति, अत्र परस्य मतमाशङ्कमानः आह21 22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org