________________
३३६
व्यवहार - छेदसूत्रम् - १-२ / ४४ प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः सम्बन्धिनः स्वजना वदेयुर्वयमौषधानि वैद्यं वासं वा संप्रयच्छामः । परमस्माकमासन्ने प्रवेशे स्थित्वा यूयं प्रतिचरथ तत्र यदि शोभनो भावस्तदेवं क्रियते । अथ गृहस्थीकरणाय तेषां भावः । तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते तत्र च त्रिष्वपि आहारोपधिशय्यासु यतना कर्तव्या । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव विवरीषुः प्रथमती स्नी निवेइयंमीत्येतद्वयाख्यानयति
[ भा. १०९६ ]
पुत्तादीनं किरियं सयमेव घरंमि कोइ कारेज्जा । अनुजाणते व तहिं इमे च गंतुं पडियरंति ।।
वृ- यदि कोऽपि राजा अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे स्वयमेव साधुनिवेदनात् प्राक् आत्मनैव पुत्रादिनां क्रियां चिकित्सां कारयति तदा तस्मै निवेदिते युष्मदीयः क्षिप्तचित्तो जात इति कथिते यदि ते अनुजानते यथा तमत्रसमान यतेति ततः स तत्र नीयते नीतं च सन्तमिमेऽपि गच्छ्वासिनः साधवो गत्वा प्रतिचरन्ति ।।
[भा. १०९७ ]
ओसह वेज्जे देमो पडिजग्गहणं तहिं ठियं चेव । तेसिं विरूव भावं न देति मानं गिही कुज्जा ।।
वृ- कदाचित्स्वजनाः ब्रूयुः यथा औषधानि वैद्यं च वयं दद्मः । केवलमिह अस्मिन्नस्माकमासन्ने प्रदेशे स्थितं णमित्येन प्रतिजाग्रत तत्र यदि तेषां भावो विरूपो गृहस्थी करणात्मकस्ततः तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददतिन प्रयच्छति न तेषामासन्नेप्रदेशे नयन्तीतिभावः । कुत इत्याह- मा एतं गृहस्थी कुर्युरितिहेतोः सम्प्रतितीसुवि जयणेत्येतद्व्याख्यानयति
[भा. १०९८ ]
आहार उवहि सेज्जा उग्गम उप्पायणा दिसुजयंता । वायादि खोभूमि विजयंति पत्तेयमिस्सावा ।।
वृ- आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु आदिशब्दादेषणादि दोषपरिग्रहः यतन्ते प्रयत्नपरा भवन्ति । उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचारका अन्येपि च यतमानास्तं प्रतिचरन्तीति भावः । एषा यतना दैविके क्षिप्तचित्तत्वे दृष्टव्या एवं वातादिना धातुक्षोभेऽपि प्रत्येकं प्रत्येकं सांभोगिका मिश्रा वा असांभोगिकैः संमिश्रा वा पूर्वोक्तप्रकारेण यतन्ते ।।
[भा. १०९९ ]
पुव्युद्दिठी उविही इह विकरेंताण होति तह चैव ।
तेगिच्छंमि कयम्मी आदसा तिन्निसुद्धी वा ।।
वृ- यः पूर्वं कल्पाध्ययने ग्लानसूत्र उद्दिष्टः प्रतिपादितो विधिः स एव इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्यं कुर्वता तथैव भवति । चैकित्स्येच चिकित्सासाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रय आदेशा एके ब्रुवते । गुरुको व्यवहारः प्रस्थापयितव्योऽपरे ब्रुवते लघुकोऽन्ये आचक्षते लघुस्वकः । तत्र तृतीय आदेशः प्रमाणं सूत्रोपदिष्टत्वात् । अथवा स शुद्धी न प्रायश्चित्तभाकू परवशतया रागद्वेषाभावेन प्रतिसेवनादेतदेव विभावयिषरिदमाह
[ भा. ११०० ]
चउरो य हुति भंगा तेसिं वयणमि होति पनवणा ।
परिसाए मज्झमि पट्ट्वणा होइ पच्छित्तै ।।
वृ- इह चारित्रविषये वृद्धिहान्यादिगताश्चत्वारो भवन्ति भङ्गास्ते चाग्रे च वक्ष्यन्ते । तेषां च भङ्गानां वचनेन गाथायां सप्तमी तृतीयार्थे भवति । पर्षदो मध्ये प्रज्ञापना प्ररूपणा तदनन्तरं यदि भवति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International