________________
उद्देशक : २, मूलं : ४४ [ भा. १०९१]
[भा. १०९१]
३३५
उव्वरयस्स य असती पुव्वखया सती य खंमए अगडे । तस्सोवरिं च चक्कं न फिड्ड्इ जइ उ प्फिडंतोवि ।।
बृ- अपवरकस्य असति अभावे पूर्वखनि [खा ] तकूपे निर्जले स प्रक्षिप्यते तस्याप्यभावे अवटी नवः खन्यते, खनित्वा तत्र स प्रक्षिप्यते । प्रक्षिप्य च तस्याऽवटकस्योपरि चक्रं रथाङ्गं स्थगनाय दीयते, यथा स उस्फिटन्नपि उत्प्लवमानोऽपि नस्फिटति न बहिर्गच्छति ।।
साम्प्रतमाहारविगिञ्चणेत्यादि व्याख्यानयति
[ भा. १०९२]
निद्धमहुरं च भत्तं करीस सेज्जा नी जहा वाऊ । दव्विधातुक्खो नाउं उस्सग्गतो किरिया ।।
वृ-यदि वातादिना धातुक्षोभोऽस्य सञ्जात इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरं च तस्मै दातव्यम् । शय्या च करीषमयी कर्त्तव्या, साहि सोष्णा भवति । उष्णेच वातश्लेष्मापहारः । तथा किमयं दैविको देवेन भूतादिना कृत उपद्रव उत धातु क्षोभज इति ज्ञातुं देवताराधनाय उत्सर्गः क्रियते । तस्मिंश्च क्रियमाणे यदा कंपितया देवतया कथितं तदनुसारेण ततः क्रिया कर्त्तव्या । यदि दैविक इति; सम्प्रति ' रक्खताणय फिटिए' इत्यादि व्याख्यानयति
[भा. १०९३]
अगडे पलायमगण अन्नगणावावि जेन सा रक्खो । गुरुगाय जंच जत्तो तेसिं च निवेयणा करणं ।।
वृ- अगडे इति सप्तमी पञ्चम्यर्थे । ततोऽयमर्थः, अवटात् कृपात् उपलक्षणमेतत् अपवरकाद्वा यदि पलायते, कथमपि ततस्तस्य मार्गणमन्वेषणं कर्तव्यम् । तथा ये तत्रान्यत्र वा आसन्ने दूरे वा अन्यगणा विद्यन्ते तेषां च निवेदनाकरणं तेषामपि निवेदनं कर्तव्यमितिभावः । यथास्मदीय एषः साधुः क्षिप्तचित्तो नष्टो वर्तते ततस्तैरपि गवेपणीयः दृष्टेच संग्रहणीयः । यदि पुनर्न गवेषयन्ति स्वगणवर्तिनोऽन्यगणवर्तिनो वा तदा तेषां प्रायश्चित्तं चत्वारो गुरु मासाः, यच्च करिष्यति पट्जीवनिकार्याविराधनादिकं तन्निमित्तं तेषां प्रायश्चित्तमिति । [भा. १०९४ ]
छम्मासे पडिवरिउं अनिच्छमाणेसु भुंज्जतरगोवि । कुलगणसंघसमाए पुव्वगमेणं निवेएज्जा ।।
वृ- पूर्वोक्तेन प्रकारेण तावत्स प्रति चरणीयो यावत् षण्मासा भवन्ति, ततो यदि प्रगुणो जायते तर्हि सुन्दरमथन प्रगुणीभूतस्ततो भूयस्तरकमपि तस्य प्रतिचरणं विधेयं । अथ तेसाधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छति । ततस्तेष्वनिच्छत्सु कुलगणसङ्घसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण तस्मै निवेदनीयं । निवेद्य च तदाज्ञया वर्तितव्यमिति अथ स साधुः कदाचिद्राजादीनां स्वजनः स्यात् तत इयं यतना विधेया
[भा. १०९५ ]
रन्नोनिवेइयंमि तेसिं वयणे गवेसणा होति ।
ओसह वेज्जासंबंधुवस्सए तीसुवी जयणा ।।
बृ-यदि राज्ञोऽन्येषां वा सपुत्रादिको भवेत् ततो राज्ञ उपलक्षणमेतत् । अन्येषांचा स्वजनानां निवेदनं क्रियते, तथा युष्मदीय एष पुत्रादिकः क्षिप्तचित्तो जातइति एवं निवेदिते यदिब्रुवतेराजादयो मम पुत्रादिनां क्रिया स्वयमेव क्रियमाणा वर्तते । तत इहैव तमप्यानयतेति ततः स तेपां वचनेन तत्र नीयते । नीतस्य च तस्य तत्र गवेषणा भवति । अयमत्र भावार्थः । साधवोऽपि तत्र गत्वा औषध भेषजानि प्रयच्छन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org