________________
उद्देशक : २, मूलं: ४४, [भा. १०७२] क्षिप्तचित्ताजाता,भयेनापमानेन चक्षिप्तचित्तत्वे उदाहरणान्याह[भा.१०७३] भयतो सामिलबडुतो, सहसोत्थरितो व संजुयादीसु ।
धन हरणेन पहणवविमाणतो लोइया खित्तो ।। वृ-भयतोभयेन क्षिप्तचित्तोयथागजसुकुमालमारकोजनार्दनभयेनसोमिलनामाबटुकोब्राह्मणः । अथवा संयुग[सं)ग्रामस्तव आदिशब्दात् परबलधाटीसमापतनादिपरिग्रहस्तैथिायांसप्तमीतृतीयार्थे सहसाअतर्कितः समन्ततः परिग्रहीतोभयेन क्षिप्तचित्तोभवति । सच प्रतीतएवभयेनोदाहरणमुक्तम् । संप्रत्यपमानत आह-प्रभुणा वा नरेन्द्रेण धनहरणेन समस्तद्रव्यापहरणो विमानितोऽपमानितः क्षिप्तो भवति । एवमादिकानि लौकिकान्युदाहरणानि क्षिप्तचित्तविषयाणि ।।
सम्प्रति लोकोत्तरि-कान्यभिधित्सुराह[भा.१०७४] रागम्भिरायखुडोजड्डादितिरिक्खचस्यवायम्मि ।
रागेणजहा खित्तोतमहंवोच्छंसमासेण ।। वृ- रागे सप्तमी तृतीयार्थे । रागेण क्षिप्तचित्तो यथा राजक्षुल्लकः राजपुत्रः क्षुल्लकोराजक्षुल्लकः शाकपार्थिवादिदर्शनादिमध्यपदलोपीसमासः । भयेन यथा जड्डादीन् हस्तिप्रभृतीन तिरश्चो दृष्टा । अपमानतो यथा चरकेण सह वादे पराजितः तत्र । रागेण यथा-राजक्षुल्लको यः क्षिप्तचित्तोऽभवत्तमहं तथा समासेन वक्ष्ये । यथाप्रतिज्ञातं करोति[भा.१०७५] जियसत्तुनरवइस्सा पव्वज्जा सिक्खणा विदेसंमि ।
काऊणपोयणम्मीतंव्याइ निव्युतोभयवं ।। [भा.१०७६] एको यतस्सभायारज्जसिरिपयहिऊणपव्वइतो ।
भाउग अनुरागेणं खित्तो जातोइमो उविहीं ।। वृ-जितशत्रुनामनरपतिस्तस्यप्रव्रज्याअभूत् ।धर्म तथाविधानांस्थविराणामन्तिके श्रुत्वा प्रव्रज्यां सप्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरंचतस्यशिक्षणाग्रहणशिक्षाआसेवनाशिक्षाचप्रवृत्ता,कालान्तरे चपोतनपुरेविदेशरूपेपरतीथिभिः सहवाद उपस्थितः । ततस्तैः सह शोभनोवादः सद्वादस्तंदत्वा महती जिनशासनप्रभावनां कृत्वा स भगवान् निवृत्तो मुक्तिपदवीमधिरूढः । एक्को य इत्यादि, एकश्च तस्य भ्राताजितशत्रोराज्ञः प्रव्रजितस्यानुरागेण राज्यश्रियंप्रहायपरित्यज्य जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियता कालेन प्रव्रजितः प्रव्रज्यां प्रतिपन्नः । स च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रात्रनुरागेणक्षिप्तोऽपहृतचित्तोजातस्तत्रचायंवक्ष्यमाणस्तत्प्रगुणीकरणाय विधिस्तमेवाह[भा.१०७७] तेलोक्कदेव महिया तित्थयरा नीरया गया सिद्धिं ।
. थेरा विगया केईचरणगुण पहावगाधीरा ।। वृ-तस्यभ्रातादिमरणं श्रुत्वाक्षिप्तचित्ती भूतस्याश्वासनार्थमियं देशनाकर्तव्यायथामरणपर्यवसानो जीवलोकस्तथा हि ये तीर्थकरा भगवन्तस्त्रैलोक्यदेवैस्त्रिभुवननिवासिभिर्भवनपत्यादिभिर्देवैमहितास्तेऽपि नीरजसोविगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिं, तथा तथा स्थविरा अपि केचिन्महीयांसोगौतमस्वामिप्रभृतयश्चरणगुणप्रभावकाधीशमहासत्वादेवदानवैरप्यक्षोभ्याः सिद्धिंगताः तद्यदिभगवतामपितीर्थकृतांमहतामपिमहर्षीणामीदृशागतिस्तत्रका कथाशेपजन्तूनांतस्मादेतादृशी संसारस्थितिमनुविचिन्त्य नशोकः कर्तव्य इति । अन्यच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org