________________
३३०
व्यवहार - छेदसूत्रम् - १- २/४३
वृ- अनवस्थोऽनवस्थाप्यः पाराञ्ची पाराञ्चितः । पूर्व कल्पाध्ययनेभणितः । इदं तुवक्ष्यमाणं नानात्वं तत्र ग्लानस्य सतश्चिन्ता न कृता, अत्र तु क्रियते । कथमित्याह-स्नानस्य सतो गणावच्छेदिना आचार्येण च यथासूत्रं वैयावृत्यं कर्त्तव्यं यदि पुनर्न कुरुते ततोऽकरणे चत्वारो गुरुकाः गुरुमासाः प्रायश्चित्तं तथा आज्ञादय आज्ञाऽनवस्था मिध्यात्वविराधनादोषाः सम्प्रति पाराञ्चितं प्रत्याचार्यस्य वैयावृत्यकरणे शिक्षामाह
[ भा. १०६८ ]
उलोयणं गवेसण आयरिओ कुणति सव्वकालंपि, उप्पन्न कारणम्मी सव्वपवत्तेण कायव्वं ।
बृ- अवलोकनं निरीक्षणं क्षेत्रबहिः स्थितस्य पाराञ्चितस्य गवेषणं च तद्योग्यस्य भक्तपानादेराचार्यः सर्वकालमपियावत्पाराञ्चितावस्थायाः कालस्तावत्तं सकलमपि यावत्करोति । उत्पन्ने कारणे म्लानत्वादि लक्षणे पुनः सर्वप्रयत्नेन कर्तव्यमाचार्येण ।
[भा. १०६९ ]
जोउ उवेह कुज्जा आयरितो केणई पमादेणं । आरोवणाऊ तस्सा कायव्वा पुव्वनिदिट्ठा
वृ- यः पुनराचार्यः किमपि जनव्याक्षेपादिना प्रमादेन उपेक्षा कुरुते, तस्थारोपणा प्रायश्चित्तारोपणा पूर्वनिर्दिष्टा कर्तव्या चत्वारो गुरुकास्तस्मै प्रायश्चित्तं दातव्यमितिभावः ।
मू. (४४) खित्तचित्ते भिक्खू गिलायमाणंनो कम्पइतस्स गणाऽवच्छेइयस्स निज्जूहितए अगिलाए तस्सकरणिज्जं वैयावडियं जायरोगायंकाओ विप्पमुक्क तओपच्छा तस्य अहालहुयस्सए नामं ववहारे पट्टवेसिया ।
वृ- खित्तचित्तं गिलायमाणमित्यादिसूत्रं । अथास्य सूत्रस्य कः सम्बन्ध उच्यते[भा. १०७०] घोरम्मितवे दिने, भएण सहसा भवेज्ज खित्तोउ ।
लन्नं वा पयं अगिला करणं च संबंधी ।।
बृ-धीरे रौद्रे पारिवारिकादिरूपेतपसि दत्ते भयेन सहसा भवेत् क्षिप्तः क्षिप्तचित्तः अपहृतचित्त इत्यर्थः । अथवा ग्लान्यं प्रकृतं क्षिप्तचित्तोऽपि च ग्लानकल्पस्ततस्तस्यापि अगिलया यथोक्तस्वरूपया कर्तव्यमिति तत्प्रतिपादनार्थमेप सूत्रोपनिपात इत्ययं पूर्वसूत्रेण सहास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या सा च प्राग्वत् । । सम्प्रति क्षिप्तचित्तप्ररूपणार्थमाह
[ भा. १०७१]
लोइय लोउत्तरिओ, दुविहो खित्तो समासती होइ ।
कह पुन हवेज्ज खित्तो, इमेहिं सुणकारी हिंतु ।।
वृ- समासतः सङ्क्षेपतो द्विविधो द्वि प्रकारः क्षिप्तो भवति । तद्यथा-लौकिको लोकोत्तरिकञ्च । तत्र लोके भवो लौकिकः, अध्यात्मादित्यादिकण एवं लोकोत्तरे भवो लोकोत्तरिकः अथ कथं केन प्रकारेण पुनः क्षिप्तः क्षिप्तचित्तो भवेत् । सूरिराह शृणु एभिर्वक्ष्यमाणैर्भवति तान्येव कारणान्याह - रागेण वा भयेण व अहवा अवमानितो नर्रिर्देण ।
[भा. १०७२ ]
एएहिं खित्तचित्तो वणियादि परूवणा लीए । ।
बृ- रागेण वा यदि वा भयेन अथवा नरेन्द्रेण प्रजापतिना उपलक्षणमेतत् । सामान्येन वा प्रभुणा अपमानितोऽपमानं ग्राहितः एतैः खलु कारणैः क्षिप्तचित्ती भवति । ते च लोके उदाहरणत्वेन प्ररूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्तो यथा वणिग्भार्या । तथा हि- काचिद्वणिग्भार्या भर्तारं मृतं श्रुत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org