________________
३३२
व्यवहार - छेदसूत्रम् - १- २/४४
[ भा. १०७८]
न हु होइ सोइयच्वो जो कालगती दढो चरितंमि । सो होइ सोतियव्वो जो संजम दुब्बलो विहरे ।।
वृ-नहु निश्चितं स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः, स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् । स कस्मात् शोचयितव्य इत्यत आहजो जहव तहव लद्धं भंजइ आहार उवहिमाईयं । समनुगुण मुक्कजोगी संसारपवडगी भणितो ।।
[भा. १०७९ ]
वृ- यो नाम यथा वा तथा वा दोषदुष्टतया न निर्दोषतया इत्यर्थः । लब्धं आहारोपध्यादिकं भुङ्क्ते उपभोगपरिभोग विषयी करोति । स श्रमणानां गुणा मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगा मनोवाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगास्ते यस्य सन्ति श्रमणगुणमुक्तयोगी संसारप्रवर्धको भणितस्तीर्थकर गणधरैस्ततोयः संयमदुर्बली विहृतवान् स शोच्य एव भवदीयस्तु भ्राता यदि कालगतो दृढचारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः सम्प्रति जड्डाइतिरिक्ख इत्यस्य व्याख्यानार्थमाह
[ भा. १०८० ]
जड्डाइतेरिच्छे सत्थं अगनीयमेहविज्जूय ।
उमे पडिभेसणाया चरगं पुव्वं परुवेडं । ।
- जड्डो हस्ती आदिशब्दात् सिंहादि परिग्रहः तान् तिरश्चो दृष्ट्रा विमुक्तं भवति । गजं वा मदोन्मत्तं सिंह वा गुञ्जन्तं व्याघ्रं वा तीक्ष्णखरनखरविकरालमुखं दृष्ट्रा कोऽपिभयतः क्षिप्तचित्तो भवति । कोऽपि पुनः शस्त्राणि खड्गादीन्यायुधानि दृष्ट्रा इयमत्र भावना - केनापि परिहासेनोद्गीर्णं खङ्गं वा कुन्तं वा क्षुरिकादिकं वा दृष्ट्रा कोऽपि हा मारयति मामेष इति सहसाक्षिप्तचित्तउपजायते । तथा अप्रोप्रदीपनकेच लग्ने कोऽपि भयतः क्षिप्तो भवति । कोऽपि स्तनितं मेघगर्जितमाकर्ण्य कोऽपि विद्युत् [तं] दृष्ट्वा एवं क्षिप्तचित्तस्य जातस्य ओमे पडिभीसणया इति अवमो लघुतरस्तेन प्रतिभीषणंहस्त्यादेः कर्तव्यं । येन क्षिप्तचित्ततापगच्छति यदि पुनश्चरकेण वादे पराजितः इति क्षिप्तचित्तो भवेत् । ततश्चरकं पूर्वं प्ररूप्य प्रज्ञाप्य तदनन्तरं तेन स्वमुखोच्चारितेन वचसा तस्य क्षिप्तचित्ततोच्चारयितव्या । सम्प्रत्यपमानतः क्षिप्तचित्ततां भावयति[भा. १०८१]
अवहीरितोवगणिणा अहवण सगणेण कम्हिएइपमाए ।
वायमि विचरगाई पराइतो तत्थिमा जयणा ।।
वृ- गणिना आचार्येण सोऽवधीरितः स्यादथवा णमिति वाक्यालङ्कारे स्वगणेन स्वगच्छेन गणावच्छेद्यादिना कस्मिश्चित्प्रमादे वर्त्तमानः सन् गाढं शिक्षितां भवेत् । ततोऽपमानेन क्षिप्तचित्तो जायते, यदि वा चरकादिना परतीर्थिकेन वादे पराजित इत्ययमानतः क्षिप्तचित्तः स्यात् । तत्र तस्मिन् क्षिप्तचित्ते इयं वक्ष्यमाणा यतना तत्र प्रथमतो भयेन क्षिप्तचित्ते यतनामाह
[भा. १०८२ ] कन्नमि एस सीही गहितो अहिधाडिती यसो हत्थी । खुडल तरगेन तु मे ते विय गमिया पुरा पाला ।।
बृ- इह पदैकदेशे पदसमुदायोपचारात् पाला इत्युक्ते हस्तिपालाः सिंहपाला द्रष्टव्याः । तेऽपि पुरा पूर्वं गमिताः प्रतिबोधिताः कर्त्तव्याः । यथास्माकमेकः क्षुल्लको युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागतः ततः स यथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org