________________
उद्देशक : २, मूलं : ४१, [भा. १०५४ ]
वागणंति वा भक्तोसणंति वा एगठमिति' सम्प्रति बहि ठाणमिति व्याख्यानयतिसागारिय अचियत्ते वाहिं पडियरण तहवि नेच्छति ।
[भा. १०५५]
३२७
अदिठे कुणइ एगो, न पुणो बंति दिठंमि ||
बृ- सागारिकः शय्यातरस्तस्य अचि [वि] यत्ते अप्रीती ग्रामस्य बहिर्वसतेदूरे वा योऽन्यउपाश्रयस्तं याचित्वा तं परिहारिणं विमुच्य एकः साधुः प्रतिचरति । वारणंइयरे इत्यस्य व्याख्यानमाह- 'तहवि नेच्छंते' इत्यादि तथापि एवमपि शय्यातरो नेच्छति यथा किमिति यूयं गमनागमन कारणेनास्माकमप्यशिवं सञ्चारतस्तस्मान्मा कोऽपि तत्र गच्छेदिति । तदा एकः साधुः यथा शय्यातरी न पश्यति न जानाति वा तथा प्रतिचरति । यदि पुनः कथमपि शय्यातरेण स्वयं दृष्टो भवेत् ज्ञातो वा ततो वदेत् यथा यूयं वारिता अपि न तिष्टय तदा तद्वष्टे उपलक्षणेतत् ज्ञातंवारिते चैवं वक्तव्यं न भूयो गमिष्यामि क्षमस्वैकवारमिति । अथ सागारिकस्य गाढमप्रीतिकरणं ततः सर्वेऽप्यन्यवसतिं याचित्वा च तिष्ठन्ति ।
[ भा. १०५६ ] बहु पाउमुवस्सय असती वसहा दुवेऽहवातिणी । कइयव कलहेणणहिं उप्पायण वाहिं संच्छोभो ।।
बृ- बहुप्रायोग्योपाश्रयस्या सति अभावे, किमुक्तं भवति ? यत्र सर्वे साधवो मान्तिस उपाश्रयोऽन्यो लभ्यते । ततो द्वौ वृषभावथवा त्रयः कैतवेन कलहं कृत्वा अन्यत्र वसत्यन्तरे गच्छंति । तत्र स्थिताः परिहारिणः परिचेष्टां कुर्वन्ति । अन्यतरकै रपि औषधादीनामुत्पादनं कृत्वा औषधादीनि याचित्वा बहिः संक्षोभः क्रियते । बहिः परिहारिणः समीपे प्राप्यते । येऽपि च कैतवकलहं कृत्वा न विनिर्गतास्तेऽप्यन्यतरकैः सह विविक्ते प्रदेशे मिलित्वा पारिहारिकयोग्यं गृह्णन्ति सम्प्रति तद्वतप्रतिचरणविधिमाह[भा. १०५७ ]
ते तरससोहियस्स य उव्वत्तणसंथरंवधोवेज्जा । अच्छेक्कोवहिपेहे अच्चियलिंगेण जो पउणे ।।
वृ- तेऽभ्यन्तरकाः कलहव्याजेन विनिर्गतास्तस्य शोधितस्य प्रतिपन्नपरिहारतपः प्रायश्चित्तस्य उद्वर्तनमुपलक्षणमेतत् । परावर्तनमौषधादि प्रदानं च वस्त्रान्तरितेन हस्तेन कुर्वन्ति । वस्त्राणि च तस्य सत्कानि सान्तरमेकोनंतरितानि गृह्णन्ति सोऽन्यस्मै समर्पयति । सोऽन्यस्मायित्यन्तरितं धावयन्ति प्रक्षालयन्ति । उपधिमपि तस्य प्रत्युपेक्षन्ते । अच्छिक्का अस्पृष्टास्सन्तः बहुवचनप्रक्रमेऽप्येकवचनं गाथायां प्राकृतत्वात् वचनव्यत्ययोऽपिहि प्राकृते यथा लक्ष्यं भवतीति । एवं तावत्प्रतिजागरति यावत्स प्रगुणं भवति । राजप्रद्वेषे तु यत् यत्रार्चितं लिङ्गं तेन लिङ्गेन यावत् प्रगुणो भवति तावत्प्रतिजाग्रति । सम्प्रति तस्स अहालघुस्सगे नामं ववहारो पट्टवेयव्वे सिया इति सूत्रं व्याख्यानयन् व्यवहारं यथा लघुकं प्रस्थापनं च पर्यायैर्व्याख्यानयति
[ भा. १०५८ ]
ववहारो आलोयण सोही पच्छित्तमेव एगड्ढा ।
थोबो उ अहा लहुसो पट्टवणा होइ दानंतु । ।
वृ- व्यवहार आलोचनाशोधिः प्रायश्चित्तमित्येकोऽर्थः । तथा यथा लघुको नाम स्तोकः तथा प्रस्थापयितव्यः इति प्रस्थापना दानं ततो दातव्यो यथा लहू मित्यर्थो वेदितव्यः । यथा लघुस्वको व्यवहारः प्रस्थापयितव्य इत्युक्तं ततो यथा लघुकादि व्यवहार प्ररूपणार्थमाहगुरुओ गुरुतरागो अहा गुरुगो य होइ ववहारी ।
[भा. १०५९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org