________________
उद्देशक : २, मूलं : ३७, [भा. १०२४]
३१९ सतोः प्रायश्चित्तस्थापनापत्तौ स्वगणे इतरस्मिन् परगणेवा गीतार्थानां मिलित्वा ताभ्यांशोधिशुद्धतपः प्रतिपद्यते अगीतार्थत्वेन परिहास्तपो योग्यताया अभावात् ।।
मू.(३८) बहवेसाहम्मियाएगतो विहरतिएगेतत्थ अन्नयरंअकिच्चट्ठाणंपडिसंवित्ताआलाएज्जा, तत्थठवणिजंच ठवित्ता करणिज्जंवेयावडियं ।।
वृ- बहवःसाधर्मिका एकतः एकत्र स्थाने विहरन्ति । तत्रतेषांमध्ये एकोगीतार्थोऽन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत् । आलोचनानन्तरं परिहारतपोदाने स्थापनीयं प्रागुक्तस्वरूपं स्थापयित्वा अनुपारिहारिकेण तस्यकरणीयं वैयावृत्यमित्येष सूत्रार्थः ।एनमेव भाष्यकृत्सविशेषमाह[भा.१०२५] एमेव तइयसुत्ते जइएगो बहुगमञ्झे आवजे ।
आलोयणगीयत्थेसुद्धे परिहार जहपुब्बिं ।। वृ- एवमेव अनेनैव प्रागुक्तेन प्रकारेण यद्येको बहुषुमध्ये अवतिष्ठमानः प्रायश्चित्तस्थानमापद्ये । ततस्तेन तत्क्षणंगीतार्थे गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि सोऽगीतार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम् । अथ गीतार्थस्ततः परिहारतपस्तच्च यथा स्थापनीयं स्थापना पुरस्सरं पूर्वमुक्तं तथात्रापि वक्तव्यमियमत्र भावना-ते बहवे साधर्मिका गीतार्था वा भवेयुः । गीतार्थमिश्रा वा । तत्र गीतार्थमिश्रेषुजधन्येनैको गीतार्थोभवेत् उत्कर्षतोद्विवादिकास्तत्रयदिसवेंगीतार्थायदिवाद्वित्रादिका गीतार्थाः प्राप्यन्ते तदा एकः कल्पस्थितः क्रियते । एकोऽनुपारिहारिकः । अथ सर्वे आचार्याव्यतिरेकेणागीतास्तितः शुद्धतपोदेयम् । अथाचार्य एव प्रायश्चितस्थानामापनस्ततः सोऽन्यत्रगच्छे गत्यापरिहारतपः प्रतिपद्यते । अथसमस्ता अप्याचार्य प्रभृतयोऽगीतार्थास्ततोऽन्यत्र गच्छान्तरेतेसर्वे गत्वा यः प्रायश्चित्तमापन्नः सशुद्धं तपः प्रतिपद्यते ।
मू. (३९) बहवेसाहम्मियाएगओविहरति, सव्वेवितेअन्नयरं अकिञ्चट्ठाणंपडिसेवित्ता आलोएज्जा एगंतत्थ कप्पगंठवइता अवसेसा णिव्विसिज्जा अहपच्छा सेवि निव्विसेज्जा ।
वृ-अथास्य सूत्रस्य कः संबंधः? उच्यते[भा.१०२६] सरिसम्मि असरिसेसुव अवराहपएसुजइगेलन्ने ।
बय कयम्मिवि दोसित्ति होइ सुत्तस्ससंबंधो। वृ- सदृशमपराधपदनामयथासर्वैरपिप्राणतिपातःकृत इति, असदृशान्यपराधपदानि मूलगुणानां प्राणातिपातनिवृत्यादीनां मध्ये किमपि केनाप्यपराद्धं तत्र यदि गणः सदृशेऽपराधे यदि वा असहशेष्वपराधेषु लगेत् तथापि यथा लोके शतमदंड्यं सहस्त्रमवध्यं तथात्रापि प्रतिपत्तिाऽभूतू । किन्तुबहुकैरपिकृतेऽपराधेदोषः ।किमुक्तं भवतिबहवोऽप्यपराधकारिणोनियमतःप्रायश्चित्तमापद्यन्ते इत्यस्यार्थस्य ख्यापनार्थमिदं सूत्रमित्येष सूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । बहवः साधर्मिका एकतो विहरन्ति ते च तथा विहरन्तः सर्वेऽप्यन्यतरत् अकृत्यस्थानं प्रतिसेव्यालोचयेयुरालोच्यच एकं तत्र कल्पस्थितं कृत्वा अवशेषाः सर्वेऽपि निर्विशन्ति परिहारतपः प्रतिपद्यन्ते इत्यर्थः, ततस्तेषां परिहारतपः समाप्त्यनन्तरंपश्चात्सकल्पस्थितो निर्विशेत्स परिहारतपः प्रतिपद्यतेति भायः । तस्यैकोऽनुपारिहारिको दीयते, एष सूत्रसंक्षेपार्थः । व्यासार्थं तुभाष्यकृदाह[भा.१०२७] सव्वे वागीयत्था मीसा वजहन्नएगो गीयत्थो ।
परिहारिय आलवणा इय भत्तं देन्ताय गेण्हंता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org