________________
३२०
व्यवहार - छंदसूत्रम्-१-२/३९ [भा.१०२८] लहुगुरुगा सुद्ध तवाणंच हाईपन्नवणा ।
अह होति अगीवत्था अन्नगणे सोहणंकुज्जा ।। वृ- ते बहवः साधर्मिकाः कदाचित् सर्वेऽपि गीतार्था भवेयुः कदाचिद्गीतार्थमिश्राः तत्र यदि जघन्येनैको गीतार्थः । तत्राचार्यो गीतार्थः, शंषाः सर्वे अगीतार्था इति यः एको गीतार्थः प्रायश्चित्तस्थानमापन्नस्तस्य एवाचार्यः कल्पस्थितः स एव चानुपारिहरिकः यदि पुनर्बहवो गीतार्थाः प्राप्यन्त, यदि वा सर्वे गीतार्थाः, तत एकं कल्पस्थितं कृत्वा बहवः पारिहारिका भवति, तेषां च पारिहारिकाणामनुपारिहारिका भवंति, तेषां च पारिहारिकाणामनुपारिहारिकाः कर्त्तव्याः पारिहारिकैश्च परिहार तपसिव्यूढेनुपारिहारिकाः परिहास्तपःप्रतिद्यन्ते कृतपरिहारतपः कर्माणस्तु तेषामनुपारिहारिका भवन्ति । कल्पस्थितोऽपि परिहारतपो वहति, तस्याप्यनुपारिहारिक एको दातव्यः, । यटि पुनराचार्यः परिहारतपी योग्यं प्रायश्चित्तस्थानमापन्नो भवति । शेषास्तु सर्वेऽप्यगीतार्थास्ततः सोऽन्यगणं गत्वा परिहारतपः प्रतिपद्यते, । परिहारिकस्य यदि शेषाः साधव आलापनादिकं कुर्वन्ति आदिशब्दासूत्रवाचनादिपरिग्रहः ततस्तेषां प्रायश्चित्तं लघवः; । अथ भक्तं ददति तदा चत्वारो गुरवः । तथा पारिहारिकादभक्तं गृह्णान्तितदाचत्वारोलघवः; यदिपारिहारिक एवालापनादिकंकरोतिभक्तंवा ददाति गृह्णातिवातदासर्वत्र प्रत्येकं चत्वारी गुरवः । ये पुनरगीतास्तेिभ्यः शुद्धतपोदातव्यमगीतार्थतया तेषां परिहारतपो योग्यत्वाभावात् अथ कीदृशाः परिहारतपोऽर्हाः कीदृशाश्च शुद्धतपो योग्या इति शिष्यप्रश्नावकाशमाशय शुद्धतपोयोग्यानांच शब्दात्परिहारतपोयोग्यानांचप्रज्ञापनाप्ररूपणा कर्तव्या । अत्रापितत्प्ररूपणायाः स्थानत्वात्साचप्रागेवकृतेतिनभूयः क्रियते ।अथसर्वेऽप्यगीतार्था भवेयुस्ततस्ते अन्यस्मिन् गणे गत्वाशोधनं कुर्युरालोचनांदत्वाशुद्धतपः प्रतिपद्येरनितिभावः
मू.(४०) परिहारकप्पट्टिते भिक्खूगिलायमाणे अन्नया अकिञ्चट्ठाणंपडिसेवित्ताआलोएज्जा, सेय संथरेज्जा ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं । सेव नो संथरेज्जा अनुपारिहारिनं करणिज्ज वयावडियं, संबसंतेबले अनुपारिहारिणं कीरमाणं वंद्यावडियं साइजज्जा, संयकसिणे तत्थैव आरुहेवव्वेसिचा।
वृ- परिहारकप्पठिए भिक्खूगिलायमाणे' इत्यादि सूत्र परिहारकल्पस्थितो भिक्षुग्लायन ग्लानिमुपागच्छन् । अन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत् । सच तेनाकृत्य प्रतिसेवनेन संस्तरेत परिहारतपोवहनेसमर्थीभवेत्ततः स्थापनीयंस्थापयित्वा अनुपारिहारिकस्तस्यस्थापयितव्यस्तेन तस्य करणीयंवैयावृत्त्यमिति सेवनसंथरेजा' इत्यादि सोऽधिकृतः पारिहारिको ग्लानयनकृत्यप्रतिसेवनेनापि संस्तारयेत् । न परिहारतपो योग्यमनुष्टानं विद्यातुमलं स्ततः तस्यानुपारिहारिकेण वैवावृत्वकरणीयं च थाकरणीयं तथा भाष्यकृद्दर्शयिष्यति । यदि पुनः सत्यपि बलेऽनुपारिहारिकेण क्रियमाणं वैयावृत्यं साइजेजति स्वादयेत् अनुमन्येत, तदपि प्रायश्चित्तं कृत्स्नं अत्रैव उह्यमाने परिहारतपसि अनुग्रहकृत्स्नेनारोपयितव्यं स्यादिति सूत्रसंक्षेपार्थः ।व्यासार्थतुभाष्यकृत्प्रतिपादयति[भा.१०२९] परिहारयाहिगारं अनुवंत्तंते अयंविसेसो उ ।
आवन्नदान संथरमसंथरे चव नाणत्तं ।। वृ-पारिहारिकेप्रकृतेऽनुवर्तमान अयं वक्ष्यमाणलक्षणोविशेषः पारिहारिकविधिगतआभ्यांसूत्राभ्यां अभिधीयते । को विशेषइत्यतआह-आवन्नदाणसंथरत्ति परिहारतपःप्रायश्चित्तमापन्नस्य परिहारतपोदाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org