SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१-२/३६ प्रायश्चित्तस्थानमापन्नोभवत्येकस्त्वनापन्नइति ।अथवायद्यपिनाम भिक्षाग्रहणादिनिमित्तंसमकंहिण्डेते यथाप्येक आपद्यतेप्रायश्चित्तस्थानमपरो नैव । तथा चाह[भा.१०२१] तुल्ले व इंदियत्थे एगो सज्जइ विरज्जई एगो ! अज्झत्थं तुपमाणंनइंदिवत्था जिनाबेति ।। वृ-तुल्येऽपिसमानेऽपिइन्द्रियविषये रूपादौ रागहेतावेकोरज्यतेरागमुपाच्छति, द्वितीयो विरज्यते विषयपरिणामस्य च दारुणतां भावयन् विरक्ती भवति, । तस्मात्प्रायश्चित्तापत्त्यनापत्तिविषये अध्यात्मनान्तरपरिणामः सप्रमाणं न इन्द्रियार्था इति जिना भगवन्तः सर्वज्ञा ब्रूवते । ततः समकहिण्डनेऽप्येको घटतेप्रायश्चित्तमापन्नोऽपरोनेति इतश्चविषयान प्रमाणंयत आह[भा.१०२२] मनसा उवेतिविसएमनसाविय सान्नियत्तिएतेसु । इय विहुअन्झत्थसमो बंधो विसया न उपमाणं ।। -इह विषयोपलब्धिव्यतिरेकेणापिमनसा अन्तःकरणेनविषयान् रूपादीन् उपैति अध्यवसतीति भावः, । मनसैव च तेभ्यो विषयेभ्यः सन्निवर्तते विरज्यते इत्यर्थः । इत्यपि एवमपि हु निश्चितमध्यात्मसमोऽध्यात्मानुरूपः परिणामानुसारी इत्यर्थः बन्धः कर्मबन्धः तस्मान्न विषयाः प्रमाणं तेषु सत्स्वपि केषाञ्चिद्रागद्वेषासंभवात् । तदभावेऽपिच केषांचिन्मनसातत्संभवादिति । [भा.१०२३] एवं खलुआवने तक्खणआलोयणा उगीयंमि । ठवणिज्जंठवतित्तायावडियं करेबितिओ ।। वृ- एवमुक्तेन प्रकारेणखलु निश्चितमेकस्मिन् प्रायश्चित्तस्थानमापन्ने तेन तत्क्षणमेव तत्कालमेव गीते गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि द्वावपि गीतार्थी विहरतस्ततः स्थापनीयम् प्रागुक्तस्यरूपंस्थापयित्वा यः प्रायश्चित्तस्थानमापन्नः सपरिहारतपः प्रतिपद्यते । द्वितीयः कल्पस्थितो भवति स एव चानुपारिहारिक इति तस्य वैयावृत्यंकरोति । मू. (३७) दोसाहम्मियाएगतो विहरति, दोवितेअन्नयरंअकिच्चट्टाणंपडिसेवित्ताआलोएज्जा, एकं तत्थ कप्पागंठावइताएगेणिव्विसेज्जा, अहपंच्छासेविनिविसेज्जा। वृ-द्वौ साधर्मिकावेकत एकत्र स्थाने विहरतस्तौ च द्वावप्यन्यतरदकृत्यं स्थानं प्रतिसेव्य आलोचयेतातां तत्र यदि द्वावपि गीतार्थी ततस्तत्र तयोर्द्धयोर्मध्ये एकं कल्पस्थितं स्थापयित्वा एको निर्विशेत् परिहारतपःप्रतिपद्यतेयश्चकल्पस्थितःसएव चानुपरिहारिकोभवत्यन्यस्याभावात्ततःसतस्य वैयावृत्यं करोति अथ परिहारतपः समाप्त्यनन्तर.स कल्पस्थितः पश्चानिर्चिशेत् परिहारतपः प्रतिपद्येत इतरस्तु कृतपरिहारतपःकर्माकल्पस्थितोऽनुपारिहारिकश्चभवति । एष सूत्रार्थः एनमेवसूत्रार्थभाष्यकृत सविशेषमाह[भा.१०२४] बितिएनिविसएगो निव्विठेतेन निविसे इयरो, • एगंतरं मियगीतेदोसुयसगनेयरेसोही । वृ- द्वितीये सूत्रे द्वयोरपि गीतार्थयोरन्यतरत् अकृत्यस्थानमापनयोरेको निर्विशति परिहारतपः प्रतिपद्यते, द्वितीयः कल्पस्थितोऽनुपारिहारिकश्चभवतीतिवाक्यशेषस्ततस्तेन निर्विशिष्टे परिहारतपसि कृतेइतरोद्वितीयो निर्विशतिकृतपरिहारतपःकर्मानुतस्यकल्पस्थितो अनुपारिहारिकश्चोपजायते । यदि पुनरेकतरो अर्गातोऽगीतार्थो भवति ततः शोधिं शुद्धतपः प्रायश्चित्तदानं, । अथ द्वयोरप्यगीतार्थयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy