________________
३१२
व्यवहार - छेदसूत्रम् - १-२ / ३६
ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षां वा श्रावकधर्मोचितां उभयोरपि शिक्षयोस्तस्याकुशलत्वात् गतं शैक्षद्वारमधुना विहारद्वारं मिध्यात्वद्वारं चाह[ भा. ९९९ ]
दसुदेसे पच्चंते, वइयादि विहारपामबहुले य । अप्पाणं च परं वा न मुणति मिच्छत्तसंकतं । ।
वृ- सोऽज्ञतया दस्युदेशे चौरदेशोविहारं करोति यदि वा प्रत्यंतबहुले म्लेच्छाकुले अथवा लुब्धतया ब्रेजिकाद आदिशब्दात् स्वजातिकादिकुलपरिग्रहः यदि वा प्राणवहुले जीवसंसक्ते देशे एतेषु यथायोगमात्मविराधना संयमविराधना च भूयसीति, गतं विहारद्वारम् अधुना मिध्यात्वद्वारमाह- अप्पाणं चेत्यादिस वराको अजानन् आत्मानमपि कुप्ररूपणादिभि र्मिथ्यात्व शङ्कासंक्रान्तं न जानाति, नापि परं ततः आत्मनः परस्य च मिथ्यात्वं प्रवर्तयतीत्युभयेषामपि संसारप्रवर्धकः ।
गतं मिथ्यात्वद्वारमधुना एषणाद्वारमाह
[ भा. १००० ] आहार उबहि सेज्जा, नु मग्ग उप्पावणेसनकडिल्ले । लग्गइ अविवाणंती, दोसे सेएस सव्वेसु ।।
वृ- आहारो भक्तपानादिरूपः उपधिः कल्पादि लक्षणः शय्या वसतिः एतासांग्रहणे इति गम्यते । किं विशिष्टे इत्याह- उद्गमेन उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिरुत्पादनया उत्पादनादोबैर्धात्र्यादिभिः षोडशभिरेषणायागवेषणादिदोषैः शङ्कितम्रक्षितप्रभृतिभिः संयोजनाप्रमाणाङ्गारधूमैः काकशृगालादिभक्षितैश्च । कडिल्ले इति महागद्दने सति सोऽविजानन् एतेष्वनन्तरोदितेषु दोषेषु सर्वेषु लगति द्वारगाथायामेषणादाविति य आदिशब्दः ससमस्तोद्भमादिदोषपरिग्रहार्थः । तथा विसमे इति विषमे च पर्वत जलादौ या यतना तां स न जानाति अजानंश्चात्मविराधनां संयमविराधनां चाप्नोति । सम्प्रति शोधिद्वारमाह[ भा. १००१]
मूलगुणे उत्तरगुणे आवन्नरस य न बाणई सोहिं । पडिसिद्धेत्ति न कुणति, गिलाणमादीन तेगिच्छं ।।
वृ- मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशी तस्मिन्नपराधे न जानाति । अजानानश्चाप्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महदाशातनाभाक्, गतंशोधिद्वारमधुना ग्लानादि द्वारमाह-पडिसिद्धेत्यादि प्रतिषिद्धा खलु चिकित्सा षट् जीवनिकायविराधनापत्तेरिति वचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनामादि शब्दः स्वगतानेकभेदसूचक आगाढाऽनागाढसहासहबालतरुणग्लानादीनां चिकित्सां न करोति । न च तद्विषयां यतनां जानाति ततश्चिकित्साया यतनायाश्च अकरणे भूयांसो दोषास्ते च प्रागेव प्रथमोद्देशकेऽभिहिताः । सम्प्रति तेना दुविहा वा इति व्याख्यानयति
[ भा. १००२]
अप्पसुयत्ति य काउं वुग्गाहेउं हरति खुडादी ।
ते नासपक्खइयरे, सलिंगि गिहि अन्नहा तिविहा ।।
वृ स्तंना द्विविधाः सपक्षाः परपक्षाश्च । ततः सपक्षाः द्विविधाः गीतार्थाः पार्श्वस्थादयश्च तत्र गीतार्था इदं चिन्तयन्ति । अमी अल्पश्रुता अल्पश्रुतत्वाच्चागीतार्था न चागीतार्थानां क्षेत्रमस्ति । तत एवं चिन्तयित्वा तेषां सचित्तादिगीतार्था अपहरन्ति पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्ति यथा दुष्कराचर्यामीषां न च दुष्करचर्यायाः सम्प्रतिदेशकाली तस्मादत्रागच्छतेति । एवं च्युद्ग्राह्य क्षुल्लकादीन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org