________________
उद्देशक : २, मूलं : ३६, [भा. ९९६ ]
३११
पाणधिच्छित्तकरणे अडवि जले सावएतेना ।।
वृ-संगिल्लो नाम गोसमुदायस्तस्मिन् रक्षणीये त्रिविधो रक्षके दृष्टान्तः । तद्यथा जानन् निश्रितोऽजानंश्च एषोऽक्षरार्थः । भावार्थस्त्वयम् - एगो खखगो नगरस्स गावीणं सो निजेहिं उगासेहिं गावीती जंतीउ एतीय खेत्ताईणं अवरोहं न करेंति तेसिं उगासेहिं नेइ आनेइय जत्थ य तेनाइ भयं नत्थि तत्थ चारेइ, अन्नया दो पुरिसा गाविउ रक्खामित्ति उवठिया । अम्हे भइयाए गावी एकामोत्ति नागरगा चितंति सो एगो न तरइ सव्वनगरस्स गाविउ रक्खिउं । तम्हा एएवि निजुजंतु त्ति भणिया रक्खह । तत्थ एगी तस्स पुराणस्स संखेडिपालस्स निस्साए गावी तो नेइ आनेइय, अजानतीति काउं तस्समएण चंकमइ, बितितो संखेडिपालतो चिंतेइ । अहमन्नस्स निस्साए न चारेमि सयमेव अहं रक्खिउं समत्थो सो वरातो अजानतो इमानि ठाणाणि न याणइ पाणंधीति देशीपदमेतत् वर्तिनी वाचकं ततोऽयमर्थः । क्षेत्र क्षेत्रेषु च शाल्यादय उत्तास्तिष्ठन्ति । गावश्च गच्छन्त्य आगच्छत्यश्च रक्षमाणा अपि शाल्यादि चरन्ति । ततः क्षेत्रस्वामिभिर्गाधृत्वा क्षेत्रोपद्रवमूलं याच्यते । एवं कुरुणेऽपि दोषा वाच्याः । कुरूणं नाम राजकीयमन्यदीयं वावीतं तथा अडवित्ति सो वराकोऽजानन् मा अटवीमपि प्रवेशयति । तत्र पुलिन्दादिभिर्गावो मार्यन्ते, तथा जलत्ति सोऽजानन् नद्यादिषु तत्र प्रदेशे गाः पाययति यत्र ग्राहादिभिर्जलचरैर्गाव आकृष्यन्ते । सावएइति समूढो वराकस्तत्र प्रदेशे नयति । यत्र व्याघ्रादयो दुष्टश्वापदास्तैश्च गाव उपद्र्यन्ते तिणंति तेषु च निकुञ्जादिषु नयति यत्र स्तेनानां प्रसरस्ततस्तेनास्ता अपहरन्ति । एवं सोऽजानन् गा विनाशयति इतरस्तु ज्ञाता एतानि सर्वाण्यापत्स्थानानि परिहरति । योऽपि निश्रितस्तमपि परिहारयति । एष दृष्टान्तोऽपमर्थोपनयः - यो गीतार्थः सर्वानपि दोषान् स्वयं परिहरति । यस्तुनिचितस्तं परिहारयति । यः पुनः स्वयमगीतार्थो यश्चागीतार्थनिश्रितस्तयोरात्मविराधना संयमविराधना च भवति । तोनवात्मविराधनादिदोषान् विवक्षुर्द्वार गाथामाह
[भा. ९९७]
म सेहविहारे, मिच्छत्ते एसणादि विसमे य ।
सोही गिलाणमादी, तेना दुविहावि तिविहा वा ।।
बू - मार्गे मार्गविषये तथा शेषे शेक्षक कुलविषये एवं विहारे मिथ्यात्वे एषणादौ विषमे शोधी म्लानादौ दोषास्तथास्तेना द्विविधास्त्रिविधा वा ये भवन्ति तेभ्योऽपि दोषा भवेयुः । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव द्वारगाथां विवरीषु प्रथमतो मार्गद्वारं शैक्षद्वारं चाह
[भा. ९९८ ]
मग्गं सद्दवरीयइ पाउसउ मग्ग अजयणा एव । सेहकुलेस य विहरति, ननु यत्तति न गाहेति ।।
वृ-मार्ग पन्थानं सेवते सोऽजानन् अगीतार्थः सन् द्रवचारितया रीयते गच्छति, तत्र च संयम विराधना कीटादिसत्वोपमर्दनात्, आत्मविराधना पादादिविस्खलनात् । तथा अज्ञतया पाउसत्ति प्रावृष्यपिकाले गच्छति तत्रापि संयमविराधना आत्मविराधना च, तथा मार्गेन्मार्गाभिज्ञतया उन्मार्गेऽपि गच्छति । तत्र स्थाणु कंटकादिभिरात्मविराधना सचित्तपृथिव्याद्युपमर्दनात् संयमविराधना च, तथा ग्रहणशिक्षायामासे वना शिक्षायां वाऽप्रवीणत्वात् । अयतनया वा गच्छेत् । अयतनया च संयमात्मविराधना । गतं मार्गद्वारं; शैक्षकद्वारमाह-सेहेत्यादि शैक्षकुलानि अभिनवप्रपन्नव्रतानि धर्माणि कुलानि तेष्वज्ञतया स विहरति । तेभ्योऽयतनया भक्तपानादिकमुत्पादयतीति भावः तथा न तानि अनुवर्तयति नुवर्त्तनागुणतः वर्धमानतरधर्मश्रद्धाकानि करोति । अनुवर्तनाया अपरिज्ञानात् । तथा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org