________________
उद्देशक : २. मूलं : ३६, [भा. ९७७]
३०५ स्थापना द्विकम् । सम्प्रति द्रव्यक्षेत्रकालद्विकप्रतिपादनार्थमाह[भा.९७८] चित्तभचित्तं एक्कक्कयस्य जे जत्तियाउदुभेया ।
खेत्ते दुपएसादी दुसमयादी उकालंमि ।। वृ- द्रव्यद्विकं द्विविधमागमतो नोआगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चानुपयुक्तः; नोआगमतस्त्रिविधं.-ज्ञशरीर भव्यशरीस्तस्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् तद्व्यतिरिक्तं सचित्तमचित्तं च एकैकस्य ये यावन्तो द्विकभेदाः सम्भवन्ति ते सर्वे वक्तव्याः । ये मे सचित्तं द्रव्यद्विकं द्विधा संसारस्थं निर्वृत्तंच, संसारस्थं द्विधा एकेन्द्रियमनेकेन्द्रियं च । तत्रैकेन्द्रिय पञ्च प्रकार-पृथिव्यप्तेजोवायुवनस्पति भेदात् । एकैकमपि द्विधा-पर्याप्तमपर्याप्तं च । अनेकेन्द्रियं द्विधासंख्यातवर्षायुष्कमसंख्यातवर्षायुष्कं च । एकैकं द्विधापर्याप्तमपयारतं च । निर्ववित्तमपि द्विधाअनन्तरसिद्ध परम्परसिद्धंच । अथवा सचित्तं त्रिविधं तद्यथा-द्विपदंचतुष्पदमपदं च । तत्र द्विपदं द्वौ पुरुषावित्यादि, चतुष्पदं द्वौ बलीवर्दावित्यादि, अपदं द्वौ वृक्षावित्यादि । अचित्तं द्वौ परमाणू द्वौ द्विप्रदेशिको त्रिप्रदेशिकौ यावत्द्वौ संख्यात्प्रदेशिको द्वावनन्तप्रदेशिको संख्यातस्य संख्याता भेदाः, असंख्यातस्य असंख्याता अनन्तस्य अनन्ताः ।उक्तं द्रव्यद्विकमधुना क्षेत्रद्विकमाह-खेत्ते दुपदेसादी क्षेत्रक्षेत्रविषयंद्विकंद्वीप्रदेशादिद्वावाकाशप्रदेशावादिशब्दाद्विप्रदेशावगाढंवा द्रव्यंक्षेत्रद्विकं क्षेत्रद्विके तस्यावस्थानात् । यदि वा द्वे भारते द्वे एरावते इत्यादि परिग्रहः । उक्त क्षेत्रद्धिक, कालद्विकमाह द्विसमयादिकंद्वौसमयावादिशद्वात्द्वेआवलिकेद्वौमुहूर्तावित्यादिपरिग्रहः ।अथवा द्विसमयस्थितिकं द्रव्यं कालद्विकेऽवस्थानात्कालद्विकमादिशब्दात् व्यावलिकास्थितिकादिपरिग्रहः ।
उक्तं कालद्विकमधुनाभावद्विकमाह[भा.९७९] भावे पसत्थमियर होइपसत्थं तु नाणिणोनाणे ।
केवलि छउमंनाणे नोनाणे दिठिचरणेय || वृ- भावद्विकं द्विधा आगमतो नो आगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चोपयुक्तः, उपयोगोभावनिक्षेपइतिवचनात्,नोआगमतोद्विधा तद्यथाप्रशस्तमितरच, इतरन्नामा प्रशस्तं । तच्छेदं रागोद्वेषश्च, प्रशस्तंद्विधा-ज्ञानंनोज्ञानंच तत्रज्ञाने ज्ञानविषयंतिकमिदंतद्यथाकैवलिकंछाद्यस्थिक च नोज्ञानेनोज्ञानविषयं द्विकंदृष्टिश्चरणंच । दृष्टिः सम्यक्त्वं, चरणंचारित्रम् एतदेवसप्रभेदंप्ररूपयति[भा.९८०] एक्ककं पियतिविहं, सठाणेनत्थिखइय अइयारो ।
उवसामिएसु दोसु. अइयारो होज्ज सेसेसु ।। वृ- एकैकमपि दर्शनं चरणं च प्रत्येकमित्यर्थः । त्रिविधं त्रिप्रकारं । तद्यथा-क्षायिक औपशमिकं क्षायोपशमिकंच । तत्रक्षायिकंसम्यक्त्वंक्षायिकसम्यादृष्टेः । औपशमिकमुपशमश्रेण्याम् । शेषकालं क्षायोपशमिकं, । चरणमपि क्षायिक क्षपकनिर्ग्रन्थस्य, औपशमिकमुपशमश्रेण्यामन्यदा क्षायोपशमिकम् । तत्रक्षायिकज्ञानेदर्शनेचारित्रेचस्वस्थाने नास्त्यतीचारः, तथाहिकेवलिनस्तिष्वपि ज्ञानदर्शनचारित्रेषुक्षायिकेषुवर्तमानस्यन तद्विपया काचिदपिविराधना, परस्थानेषुसंभवेदपि, तथाहि श्रुतकेयल्यादेः क्षायिकेदर्शनवर्तमानस्थदर्शनेनास्ति विराधनाज्ञानचरणयोस्तुभजनेति । उवसामिए विदोसुतिद्वयोर्दर्शनचरणयोरोपशमिकेभावे वर्तमानयोः स्वस्थानेनास्त्यतीचारः । औपशमिकं हिदर्शनं 2729
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org