SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०६. व्यवहार - छेदसूत्रम् - १-२ / ३६ चारित्रं च नियमादुपशमश्रे एयां भवति, तत्र कषायाणामुपशान्तत्वान्नास्ति कश्चिदतिचारसंभवः, ज्ञानविराधनात् [तु] सम्भवेदप्यनुपयोगतोऽन्यथा प्ररूपणाचिन्तनादिसम्भवात् । उपशमश्रेणितः पातेत्तुभवत्यतीचारः औदयिकभावे वर्तमानत्वात्, शेषेषु पुनः क्षायोपशमेषुज्ञानदर्शनचारित्रेषु स्वस्थाने परस्थाने वातीचारो भवेत् क्षायोपशमिकत्वादेतदेवाह [ भा. ९८१ ] सठाण परठाणे खउवसमिसु तीसु विभयणा । दंसण उवसमखतिए परठाणे होइ भयणाउ ।। I वृक्षायोपशमिकेभावे वर्तमानेषु त्रिष्यपि ज्ञानादिषु स्वस्थाने वातीचारस्य भजना, कदाचिद्भवति कदाचिन्न भवतीत्यर्थः । दर्शने उपलक्षणमेतत्, चरणे च औपशमिके क्षायिके च स्वस्थानेऽतीचारो न भवति परस्थाने तु भजना | अत्र येन द्विकेनाधिकारस्तदभिधित्सुराहदव्वदुए दुपएणं सच्चित्तेणं च एत्थ अहियारो । मीसेनोदइएण भावमिवि होति दोहिंपि ।। [ भा. ९८२ ] - अत्र द्रव्यद्विकेन भावद्विकेन चाधिकारः । तत्र द्रव्यद्विकेन सचित्तेन तेनापि च द्विपदेन साधर्मिकद्वयस्य चिन्त्यमानत्वात् भावे मिश्रेण क्षायोपशमिकेन औदयिकेन चेति द्वाभ्यां भावाभ्यामधिकारः अनयोरेव द्वयोर्भावयोर्वर्तमानस्याती चारसंभवात् । उक्तो द्विकस्य पट्कोनिक्षेपः । । सम्प्रति साधर्मिकस्य द्वादशकं निक्षेपमाह [भा. ९८३ ] नाम ठवणा दविए खेत्ते कालेय पवयणे लिंगे । दंसण नाणं चरिते आभिगहे भावनाएय || बृ- नामसाधर्मिकः, स्थापनासाधर्मिकः, द्रव्यसाधर्मिकः, क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, भावनासाधर्मिकः, तत्र नामस्थापनाद्रव्यसाधर्मिक प्रतिपादनार्थमाहनामंमि सरिसनामी ठवणाए कट्ठकम्ममादीसु । [ भा. ९८४ ] दुव्वंमि जोउभविओ साहम्मि सरीरगं चेव ।। वृ- नाम्नि नामविषये साधर्मिको यत्सदृशनामा यथादेवदत्तो देवदत्तस्य, स्थापना साधर्मिकः काष्टकर्मादिषु स्थाप्यमानो यथा वारकर्षिरादिशब्दात् पुस्तकर्माक्षवराटकादिपरिग्रहः, द्रव्ये द्रव्यरूपतया साधर्मिको यो भव्योभावी । स च त्रिप्रकारः । तद्यथा एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च । अमीषांच भावना द्रव्यभिक्षुवद्भावनीया । यच्च साधर्मिकशरीरंव्यपगतजीवितं सिद्धशिलातलादिगतं तत् द्रव्यसाधर्मिकः । द्रव्यताचारस्य भूतभावत्वात् क्षेत्रकालप्रवचनलिङ्गसाधर्मिकानाह[भा. ९८५ ] खेत्ते माणदेसी कालम्मिउ एक्ककालसंभूतो । पवयणसंधेगयरो लिंगे रयहरणमुहपत्ती ।। दृ- क्षेत्रे क्षेत्रतः साधर्मिकः समानदेशीय यथा सौराष्ट्रः सौराष्ट्रस्य, काले कालतः साधर्मिकः एककालसम्भूतो यथा वर्षाजातो वर्षाजातस्य, प्रवचनमिति प्रवचनतः साधर्मिकः सङ्घमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति, लिङ्गे लिङ्गतः साधर्मिकः रजोहरणमुहपोत्तित्ति रजोहरणमुखपोति [त्ति ]कायुक्तः । । सम्प्रति दर्शनादिसाधर्मिकानाह [भा. १८६ ] दंसणनाणेचरणे तिगपणतिविह होइ उवरिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy