________________
૨૦૪
व्यवहार - छंदसूत्रम् - १-२ / ३६
उद्देशक : २
वृ- साम्प्रतं द्वितीय आरभ्यते । तस्य चेदमादिसूत्रम्
मू. (३६) 'दां साहम्मिया एगआंविहरति एंगतत्थ अन्नतरं अकिचट्टाणं पडिसेवित्ता आलोएज्जा
ठवणिजंठवइता करणिचं वयावडियं ।
वृ. अथास्य सूत्रस्य सम्बन्ध उच्यते
[भा. ९७४ ] अब्भुठियस्स पासंमि, वहतो जइ कयाइ आवज्जे । अत्थेनेव उजागो पढमाओ होति बितियस्स ।।
वृ- योऽसौ पार्श्वस्थादिः प्रायश्चित्ततपो वहनार्थमभ्युत्थितस्य पार्श्वे प्रायश्चित्ततपो वहन् यदि कदाचिद्भूयोऽपि तपोऽहं प्रायश्चित्तमापद्यते तदपि नियमादालांचयितव्यमिति तदालीचनानेन प्रतिपाद्यते । एपोऽर्थेनार्थमाश्रित्य प्रथमादुद्देशकादनन्तरस्यास्य द्वितीयस्योद्देशकस्य योगः सम्बन्धः || अत्रैव प्रकारान्तरमाह[भा. ९७५ ]
अहवा एगस्स विहीउ तो नेगाण होइ अयमनो । आइणविगडिएवा पठवणा एस संबंधी ।।
वृ- अथवेति सम्बन्ध्य प्रकारान्तरतोपप्रदर्शने पूर्वमेकस्य प्रायश्चित्तदानविधिरुक्तः । साम्प्रतमयमनेकेषामन्यः प्रायश्चित्तदानविधिः । अथवा यदाचीर्णं प्रतिसेवितं तस्मिन् विकटिते आलोचिते प्रस्थापनाप्रायश्चित्तदानं भवति । ततः प्रायश्चित्तदानप्रस्तावादस्य सूत्रस्योपनिपात इत्येष सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या - द्वौसाधर्मि को संविग्नसांभोगिकादिरूपावेकत एकस्मिन् स्थाने समुदितो विहरतः । तत्रैको ऽन्यतरत् अकृत्यं स्थानं प्रतिसेव्य आलोचयेत् । तत्र यद्य गीतार्थः प्रतिसेवितवान् । ततस्तस्मै शुद्धतपो दातव्यमथ गीतार्थस्तर्हि यदि परिहारतपो योग्यमापन्नस्ततः परिहार तपो दद्यात् । तदनन्तरस्थाप्यतेविविक्तं कृत्वा प्ररूप्यते इतिस्थापनीयं परिहास्तपो योग्यमनुष्ठानं, तत् स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिपद्यते । इतरः कल्पस्थितो भवति । स एव च तस्यानुपारिहारिकः ततस्तेन तस्य करणीयवैयावृत्यमित्येष सूत्रसंक्षेपार्थः । अधुना निर्युक्तिविस्तरः[भा. ९७६] दो साहम्मिय छ बारसेव लिंगमि होइ चभंगी ।
चत्तारि विहारम्मि उदुविहां भावम्मि भेदोउ ।।
वृ- द्विशब्दस्य साधर्मिक शब्दस्य च यथाक्रमं षट् द्वादश नामादयी निक्षपाद्विशब्दस्य षट्कः साधर्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः लिङ्गे लिङ्गविषये चतुर्भङ्गी भवति । सूत्रे च पुंस्त्वनिर्देशः प्राकृतत्वात् । तथा विहारे चत्वारो नामादयो निक्षेपाः । तत्र भावे द्विविधो भेदः । एष द्वारगाथासंक्षेपार्थः । व्यासार्थं च प्रतिपदमभिधित्सुः प्रथमतो द्विशब्दस्य पट्क निक्षेपमाक्षिपन्नाह
[ भा. ९७७ ]
नाम दवणा दविए खेत्ते काले च होइ बोधव्वी ।
'भावेव दुगे एसो निक्खेवी छव्विहो होइ ।।
वृ- नामद्विकं स्थापनाद्विकं द्रव्ये द्रव्यविषयं द्विकं द्रव्यद्विकं, एवं क्षेत्रद्विकं कालद्विकं च भवति बोद्धव्यम् । तथा भावे च भावविषयं च द्विकमेव द्विके द्विशब्दस्य षट्कां भवति निक्षेपः । तत्र नामद्विकं द्वे नामनी अथवा वस्य द्विकमिति नामतन् नामद्विकं । स्थापनाद्विकं द्वे स्थापने, द्विकस्य स्थापना वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International