________________
उद्देशक : १, मूलं : ३५, [भा. ९७१] [ भा. ९७१]
३०३
दुविहा सती एतेसिं आहारादि करेइ सव्वेसिं । पणहानीए जयंती अत्तड्डाए विएमेव । ।
वृ- इह परिवाराभावे तस्यालोचनार्हस्य कर्तव्यमिति । समाचारी च तेषां पार्श्वस्थादीनां, दुविहा असती इति परिवाराभावो द्विविधः विद्यमानाभावोऽविद्यमानाभावश्च । विद्यमानः सन् अभावोऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः । अविद्यमानसन्नभावो विद्यमानाभावः । तत्र द्विविधेऽप्यभावे से तस्यालोचनार्हस्याहारादिकं सर्वं कल्पिकमकल्पिकं वा यतनया करोति उत्पादयति । यतनया कथमकल्पिकमुत्पादयति इति चेदत आह-पञ्चकहान्या यतमानः । किमुक्तं भवति ? अपरिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पञ्चकादि पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनां करोति । तामपि यतनया पञ्चकग्रहणमुपलक्षणं तेन दशादिहान्यापि यतमान इति द्रष्टव्यम् । एवं सर्वत्र न केवलमालोचनार्हार्थमेवं यतते किन्तु कारणे समुत्पन्ने आत्मार्थमप्येवमेव पञ्चकहान्या यतत इति । यदुक्तं सम्यक्त्वभाषितायाः पुरतः आलोचयितव्यमिति तदेतद्भावयति[भा. ९७२ ] कोरंटगं जहा भावियट्टमं पुच्छिऊण वा अन्नं । असति अरिहंत सिद्धे जाणतो सुद्धो जा चेव ।।
वृ- कोरण्टकं नाम भरुकच्छे उद्यानं, तत्र भगवान्मुनिसुव्रतस्वाम्यर्हन्नभीक्ष्णंसमवसृतस्तत्र तीर्थकरेण गणधरैः च बहूनां बहूनि प्रायश्चितानि च दीयमानानि तत्रत्यता देवतया दृष्टानि ततः कोरण्टकं गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्कंपिताया देवतायाः पुरती यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्हं प्रायश्चित्तं । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दष्टस्तीर्थकरस्ततः साष्टमे नाकंपिता ब्रूतेमहाविदेहे तीर्थकरमापृच्छ्य समागच्छामि । ततः सा नेतानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्यसाधवे प्रायश्चित्तं कथयति यथा च कोरण्टकभुद्यानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम् । तत्राप्यभीक्ष्णं वर्धमानसाम्यादीनां समवसरणात् तासामपि देवतानामभावेऽर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततः स्वयमेव प्रतिपद्यते । प्रायश्चित्तं तासामप्यभावे प्राचीनादिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिं विद्वान् आलोचयति । आलोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं । स च तथाप्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति । कोरण्टकं जहेत्यत्र यथाशब्दोपादानात् कोरण्टकसमुद्दिशतानान्यप्युद्यानानि सूचितानीति प्रकटयिपुराह
[भा. ९७३ ]
सोहीकरणा दिट्ठा गुणसिलमादीसु जहय साहूणं । तो देति विसोहीतो पच्चुप्पणाय पुच्छंति ।।
वृ गुणसिलासुद्यानेषु याभिद्वताभिः साधूना तीर्थकरैर्गणधरैश्चानेकशो विधीयमानानि शोधिकरणानि दृष्टानि, ताः स्वयं ददति प्रयच्छन्तिविशोधीः प्रायश्चित्तानियाः पुनः प्रत्युत्पन्ना देवतास्तो महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति पृष्ट्रा च साधुभ्यः कथयन्ति । ।
उद्देशकः - १ - समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहार सूत्रे (भद्रबाहुस्वामिरचिता निर्युक्ति युक्तं ) संघदास गणि विरचितं भाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org