________________
३०२
व्यवहार- छेदसूत्रम्-१-१/३५ आलोचगितव्यं । तदेवमसतीति व्याख्यातमधुनातत्थैवत्तिव्याख्या-वदिपार्थस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्त तया दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति तावत्तस्थालोचनाप्रदायिनः सुखदुःखेगवेषयति, सर्वमुदन्तं वहतीत्यर्थः पश्चात्कृतगतमेव विधिमाह[भा.९६८] लिंगकरणं निसज्जा कितिकम्ममनिच्छतो पणामोय ।
एमेव देवयाएनवरंसामाइयंमोत्तुं ।। वृ- पश्चात्कृतस्येत्वरकालसामायिकारोपणपुरस्सरमित्वरकालं लिङ्गकरणरजोहरणसमर्पणंतदनन्तरं निषद्याकरणं । ततः कृतिकर्मवन्दनकंदातव्यम् । अथसवन्दनकंनेच्छतिततस्तस्यकृतिकर्मा निच्छतः प्रणामोवाचाकायेनचप्रणाममात्रकर्तव्यं पार्श्वस्थादेरपिकृतिकर्मानिच्छायांप्रणामः कर्तव्यः । एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्व भावितायाः पुरतः आलोचयति । नवरं सामायिकारोपणं लिङ्गसमर्पणंच न कर्तव्यमविस्तत्वेन तस्यास्तद्योग्यताया अभावात् ।
यदुक्तं 'गवेषणा जाव सुहदुक्खे' इति तद्व्याख्यानयति[भा.९६९] आहार उवहिसेज्जा एसणामादीसु होइजइयव्वं ।
अनुमोयण कारावण सिक्खत्तिपयम्मित्तो सुद्धो ।। वृ- आहारः पिण्ड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्येकमभिसम्बध्यते । आहारपणायामुपध्येषणायां शय्वैपणायामादिशब्दाद्विनयवैयावृत्यादिषु च भवति तेन यतितव्यम | कथमित्याह-अनुमोदनेन कारापणेन च । किमुक्तं भवति? यदि तस्यालोचनार्हस्य कश्चिदाहारादीन उत्पादयतिततस्तस्यानुमोदनाकरणतःप्रोत्साहने यततेअथान्यः कश्चिन्नोत्पादयतिततःस्वयमालोचक आहारादीन् शुद्धानुत्पादयति । अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्साह्याकल्पिकानप्याहारादीन यतनया उत्पादयतीति । अथाकल्पिकानाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते । अथ च सशुद्धिकरणार्थं तदन्तिकमागतस्ततः परस्पर विरोधः । अत्राह-सिक्खत्ति पयंमिती सुद्धो यद्यपि नाम तस्यालोचनार्हस्यार्थायाकल्पिकानप्याहारादीनुत्पादयति । तथाप्यासंवनाशिक्षा तस्यान्तिके क्रियते । बितियपदे अपवादपदेस तथा वर्तमानः शुद्ध एव तदेवभावयति[भा.९७०] चोइय से परिवार अकरमाणेभणइया सड्ढे ।
अव्योच्छित्ति उसुयभत्तीएकुणहयूयं ।। वृ-प्रथमतः सेतस्यालोचनार्हस्य परिवारंवैवावृत्यादिकमकुर्वन्तं चोदयतिशिक्षयति । तथा ग्रहणा सेवना शिक्षा निष्णात एष तत एतस्य विनयवैयावृत्यादिकं क्रियमाणं महानिर्जराहेतुरिति । एवमपि शिक्षमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकंनलभतेततः श्राद्धान्भणतिप्रज्ञापयति । प्रज्ञाप्य चतेभ्योऽकल्पिकमपि यतनया सम्पादयति ।नचवाच्यंतस्यैवंकुर्वतः कथंनदोषोयतआह-अव्योच्छित्तीत्यादि । अव्यच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्तिहेतुभूतया अकल्पिकस्याप्याहारादेः संपादनेन श्रुतभक्त्या पूजां कुरुत यूयं न च तत्र दोष एवमत्रापि । इयमत्र भावना-यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमप्याहारादिकं यतनया तदर्थं प्रतिसेवमानः शुद्धो ग्रहणशिक्षाया क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तंप्रतिसेवमानः शुद्ध एव आसेवना शिक्षायाः तत्समीप क्रियमाणत्वादिति एतदेव स्पष्टतरंभावयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org