________________
३०१
उद्देशक : १. मूलं:३५, [भा. ९६४]
वृ. इति एवमनेन दृष्टान्तप्रकारेण पञ्चकपरिहीने आचार्यादिपञ्चकविरहिते गच्छेतत् प्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रागुक्त आयुयाघातादिरूपेण निजाचार्यादीनामन्तिक आलोचनामलभमानः सूत्रोक्त्या नीत्या परम्परमन्यसांभोगिकादिकं तावद्वजति यावत्सिद्धान् गच्छति एतदेव सविशेषमाह [भा.९६५] आयरिए आलोयण, पंचण्हं असतिगच्छे बहिया जो ।
ववच्चे चउलहगा,गीयत्थे होतिचउगुरुगा ।। वृ- आचार्ये आचार्यसमीपे आलोचना दातव्या, । गच्छे पञ्चानामाचार्यादीनामसतिगच्छाद्वहिर्गन्तव्यम् । इयमनभावनाप्रायश्चित्तस्थानमापनेनसाधुना नियमतःस्वकीयानामाचार्याणांसमीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनस्तस्याप्यभावे स्थविरस्य, तस्याप्यभावेगणावच्छेदिनः ।अथस्वगच्छेपञ्चानामप्यभावस्ततोबहिरन्यस्मिन्सांभोगिकेगन्तव्यम्। तत्राप्याचार्यादिक्रमेणआलोचयितव्यम् ।सांभोगिकानामाचार्यादीनामभावेसंविग्नानामसांभोगिकानां समीपे गन्तव्यम् । तत्रा प्याचार्यादिक्रमेणालोचना प्रदातव्या । यदा पुनरुक्तक्रमोल्लङ्घनेनालोचना प्रयच्छति । तदा प्रायश्चित्तंचतुर्लघु । तथा चाह-ववच्चे चउलहुगाइतिव्यत्यये विपर्यासे उक्तक्रमोल्लङ्घने इत्यर्थः । चत्वारो लघुका लधुमासाः यदि पुनरुक्तक्रममुल्लङ्घयन् अगीतार्थसमीपे आलोचयति । तदा प्रायश्चित्तंचतुर्गुरुएतदेवाह-गीयत्थेहोतिचगुरुया । तदेवंसंविम्नानांसांभोगिकान्यावविधिरुंक्तः
सम्प्रतिशेषान्प्रतिविधिमाह[भा.९६६] संविग्ने गीयत्थेसरूवी पच्छाकडे वगीयत्थे ।
पडिक्कते अब्भुट्ठिय असती अन्नत्थतत्थेव ।। वृ- संविग्ने अन्यसांभोगिकलक्षणे असति अविद्यमाने पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपिगीतार्थे पार्श्वस्थेअसतिसारूपिकस्यवक्ष्यमाणस्वरूस्यगीतार्थस्यसमीपे तस्मिन्नपि सारूपिके असति पश्चात्कृते पश्चात्कृतस्य गीतार्थस्य समीपे आलोचयितव्यम् । एतेषांच मध्ये यस्य पुरत आलोचना दातुमिष्यते । तमभ्युत्थाप्य तदनन्तरंतस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नामवन्दनक प्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा तथा चाह-पडिकते अब्भुट्ठियत्ति अभ्युत्थितेवन्दना प्रतीच्छनादिकंप्रतिकृताभ्युपगमेप्रतिक्रान्तोभूयात्नान्यथा ।अथतेपार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युतिष्ठन्ति । तत आह । असतित्ति असति अविद्यमाने अभ्युत्थाने पार्श्वस्थादीनांनिषद्यामारचय्यप्रणाममात्रंकृत्वालोचनीयमितरस्यतुपश्चात्कृतस्य इत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । अन्नत्थतत्थेवत्ति यदिपार्श्वस्थादिकोऽभ्युत्तिष्ठिति तदा तेनान्यत्र गन्तव्यं येन प्रवचनलाघवं न भवति । तत्रच गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वायति ।मासादिमुत्कर्षतः षण्मासपर्यवसानंयदिवाप्रागुक्तस्वरूपंपरिहारतपःअथसनाभ्युत्तिष्ठति शुद्धं च तपः तेन प्रायश्चित्तं दत्तं ततस्तत्रैवतपोवहति । एतदेव सति इत्यादिकं व्याख्यानयति । [भा.९६७] असतीए लिंगकरणंसामाइय इत्तरं कितिकम्मं ।
। तत्थेवय सुद्धतवो गवेसणा जावसुहदुक्खे ।। वृ-असतिअविद्यमानेपश्चात्कृतस्याभ्युत्थाने गृहस्थत्वालिङ्गकरणं इत्वरकालंलिङ्गसमर्पणंतथा इत्वरमित्वरकालं सामायिकमारोपणीयं । ततस्तस्यापि निषेद्यामारचय्य कृतिकर्मवन्दनं कृत्वा तत्पुरत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org