________________
२९२
व्यवहार - छेदसूत्रम् - १-१ / ३५ पुनः कर्णतामाह । अकर्णतया पुनरभ्युत्तिष्ठेत् । पुनरकरणतया अभ्युत्थानेऽपि विशोधिप्रायश्चित्तप्रतिपत्या भवति । तत आह-यथार्हं यथायोग्यं तपः कर्म तपोग्रहणमुपलक्षणं च्छेदादिकं प्रायश्चित्तं प्रतिपद्यते । यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्सु अन्येषामन्तिके आलोचयति । ततः प्रायश्चित्तं तस्य चतुर्गुरु यदि पुनरात्मन आचायोपाध्यायान्न पश्येत् । अभावाद्दूरव्यवधानतो वा ततो यत्रैव सांभोगिक साधर्मिक विशिष्टसामाचारीनिष्पन्नं बहु श्रुतं छेदग्रन्थादिकुशलं उद्भामकमुद्यतविहारिणं पाठान्तरं बह्वागममर्थतः प्रभूतागमं पश्येत्तस्यान्तिके आलोचयेदत्रापि यावत्करणात् पडिक्कमेचा इत्यादि पदकदम्बकपरिग्रहः । यदि पुनः तस्य भावे अन्यस्य सकासे आलोचयति तदा चतुर्लघु एवं सर्वत्रोत्क्रमकरणे वक्तव्यम् । सांभोगिकसाधर्मिकवहुश्रुताभावे असांभोगिक साधर्मिक बहुश्रुत संविग्नस्यान्तिके तस्याप्यभावे सारूपिकस्यवहुश्रुतस्यान्तिके समानं रूपं सरूपं तत्र भवः सारूपिको यक्ष्यमाणस्वरूपः । तस्याभ्यभावे यत्रैव सम्यग् भावितानि जिनवचनवासितान्तः करणानि दैवतानि पश्यति । तत्र गत्वा तेषामन्तिके आलोचयेत् । तेषामप्य भावे बहिर्ग्रामस्य ग्रसति बुद्ध्यादीन गुणान् यदिवागम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्य यावत्करणात् । “नगरस्य वा निगमस्स वा रायहानीए वा खेडस्स वा कप्पडस्यवा पट्टणस्स वा दोणमुहस्स वा आसमस्स वा संवाहस्स वा सन्निवेस्सस्स वा इति परिग्रहः " ।। तत्र न विद्यते करो यस्मिन् तत् नकरं तस्य, निगमः प्रभूतर वणिग्वर्गावासकस्तस्यवा राजाधिष्ठानं नगरं राजधान तस्य वा पांशुप्राकार निबद्धं खेटं तस्य वा क्षुल्लकप्रकारवेष्टितं कर्बटं तस्य वा अर्धतृतीयगव्यूतान्तर्ग्रामान्तरहितं मडम्बं तस्य वा, पत्तनं जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं । उक्तं च
"पत्तनं शकटैर्गम्यं, घाँटकैर्नीइबड़ए' च । नौभिरेवयद्गम्यं, पट्टनं तत्प्रचक्षते । ।"
7
,
तस्य वा द्रोणमुखं जलनिर्गमप्रवेशं । यथा- 'कोङ्कणदेशेस्थानकनामकं पुरं तस्य च, आकरो हिरण्याकरादिः आश्रमस्तापसावसधोपलक्षित आश्रयविशेषः तस्य वा संबाधो यात्रासमागतप्रभूतजननिवेशस्तस्य वा संनिवेशस्तथाविधप्राकृतलोक निवासस्तस्य वा प्राचीनाभिमुखो वा उदीचीनाभिमुखो वा पूर्व दिगभिमुख उत्तरदिगभिमुखो वा इत्यर्थः । इह चिरन्तनव्याकरणेषु दिश्यपिस्त्रियामभिधेयायामीनप्रत्ययः स्वार्थे भवति, तत एवं निर्देशः पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेव दिशयोरर्हत्वात् करतलाभ्यां प्रकर्पेण गृहीतः करतलप्रगृहीतः तं तथा शिरस्यावर्तो यस्य स शिरस्यावर्त्तः कण्ठे कालवद लुक् समासः तं मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणरीत्या वदेत् । तामेव रीतिं दर्शयति- एतावन्तो मे ममापराधा एतावत् कृत्वा एवावतो वारान् यावदहमपराद्ध एवमर्हतां तीर्थकृतां कथं भूतानामित्याह-सिद्धानामपगतमलकलङ्कानामन्ति के आलोचयेदित्यादि पूर्ववदेष सूत्रसंक्षेपार्थः । अधुना नियुक्तिभाष्यविस्तरः । तत्रयदुक्तमकृत्यं स्थानं सेवित्वेति तद्विषयमुपदर्शयतिअन्नयरं तु अकिच्चं मूलगुणे चेव उत्तरगुणेय ।
[भा. ९१७]
मूलं च सव्वदेसं एमेव य उत्तरगुणेसु ।।
वृ- अन्यतरदकृत्यं पुनः सूत्रोक्तं मूलगुणे मूलगुणविषयमुत्तरगुणे वा उत्तरगुणविषयं वा । तत्र मूलं मूलगुणविषयं सर्वं देशं वा । सर्वथा मूलगुणस्योच्छेदेन देशतो वा इत्यर्थः । एवमेवानेनैव प्रकारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं । तद्यथा उत्तरगुणस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org