________________
उद्देशक :
६:१, मूलं : ३२, [ भा. ९१७]
व्याख्यानान्तरमाह[ भा. ९१८ ]
२९३
अहवा पनगादीयं मासादीवावि जाव छम्मासा ।
एवं तवारिहं खलु च्छेदादि चउण्हवेगयरं । ।
वृ- अथवेति अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चक प्रभृति प्रायश्चित्त स्थानमकृत्यं स्थानं, यदि वा मासादि तच्च तावत् यावत् षण्मासाः । एतत्खलु अकृत्यस्थानं तपोऽहैं तपीरूपप्रायश्चित्तार्हं यदि वा च्छेदादीनां चतुर्णां प्रायश्चित्तस्थानमकृत्यस्थानं तदेवमकृत्वस्थानं व्याख्याय सम्प्रति यथा स्वकीयाचायोपाध्यायादीनामदर्शनं संभवति तथा प्रतिपादयतिआउय वाघायं वा दुल्लहगीयं च पत्तकालं तु । अपरक्कममासज्ज व सुत्तमिणं तूदिसा जाव ।।
[भा. ९१९]
वृ-स्वकीयानामाचार्योपाध्यायानामायुषो व्याघातोऽभवत् जीवितस्य बहुघातसंकुलत्वात् । यदि वा तस्यैवालोचकस्यायुर्यावदाचार्योपाध्यायादि समीपं गच्छति तावत् न प्रभवति स्तोकावशेषत्वात्, तत आयुषी व्याघातं वा समाश्रित्य तथा भविष्यति स कालो यत्र दुर्लभो गीतार्थः आलोचनार्हस्तत एष्यन्तं कालमधिकृत्य दुर्लभं गीतार्थं गीतार्थं वाश्रित्य तथा जङ्घाबल- परिहान्यारोगातंकेण वा जातोऽपराक्रम आलोचकस्ततस्तं वा प्रतीत्य सूत्रमिदमधिकृतं प्रवृत्तं यावद्दिशादि सूत्रम् । अत्र पर आहननु पूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि यथा एकाकिविहारे दोषाः, तदनन्तरं पार्श्वस्थादि विहारोऽपि प्रतिषिद्धः । ततो नियमाद्वच्छे वस्तव्यमिति नियमितं । एवं च नियमिते कथमेकाकी जातो येनोच्यते नैवात्मनमाचार्योपाध्यायन् पश्येत्तत्रैव गत्वा तेषामन्तिके आलोचयेदित्यत्र सूरिराहसुत्तमिणं कारणियं आयरियादीण जत्थ गच्छंमि ।
[ भा. ९२० ]
पंच ही असती एगो च तहिं न वसियव्वं ।।
वृ-सूत्रमिदमधिकृतंकारणिकं, कारणेभवं कारणिकंकारणे सत्येकाकिविहारविषयमित्यर्थः । इयमत्र भावना-बहूनि खल्वशिवादीनि एकाकित्वकारणानि ततः कारणवशतो यो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोपः अशिवादीनि तु कारणानि मुक्त्वा आचार्यादिविरहितस्य न वर्तते वस्तुं । तथा चाह-यत्र गच्छे पञ्चानामाचयापाध्यायगणावच्छेदि प्रवर्तिस्थविररुपाणामसदभावो यदि वा यत्र पञ्चानामन्यतमोऽप्येको न विद्यते तत्र न वस्तव्यमनेकदोषसम्भवात् । तानेव दोपानाहएवं असुभगिलाणे परिणकुलकज्ञ्जमादिवगोउ । अनस्सतिससल्लस्सा जीवियघाते चरणघातो ।।
[ भा. ९२१]
वृ एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृतकस्थापनाद अपरो ग्लानप्रयोजनेष्वन्यः परिज्ञायां कृतभक्तप्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति, अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन सशल्यस्य सतो जीवितघाते जीवितनाशे चरणव्याघातञ्चरणगात्रभ्रंशश्चरणभ्रंशे च शुभगतिविनाशः अत्र पर आह
[भा. ९२२]
एवं होइ विरोहो, आलोयण परिणतो य सुद्धोउ । एतेन प्रमाणं परिणामो वि न खलु अम्हं ||
वृ- नन्वेवं सति परहस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते सशल्यस्य सतो जीवितनाशे चरणभ्रंशः प्राक् चैव मुक्तमदत्तालोचनेऽप्यालोचनापरिणामपरिणतः शुद्धइति ततो भवति परस्पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org