SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : ३१. [भा. ८९७ ] २८७ वृ- कलाद्वासप्ततिसंख्या लोकप्रसिद्धा तासु कलासु सर्वास्वपि सविस्तरासु आगाढप्रश्रेषु चात्यन्तदुर्भेदप्रश्नेषु परिचयेषु सत्सु योराजा यत्र कलादिविशेषेसक्त आसक्ती भवति । किमुक्तं भवति ? यस्य राज्ञो यस्मिन् कलादिविशेषे अत्यन्तमभिष्ङ्गो भवति तमनुप्रवेशयेयुस्तं सम्यक् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्चराजानमुपशमयन्ति । यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपरा विरोधीपन्थामार्गउपायः । तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषे तावत्प्ररूपयन्तियावत्सार्थो लभ्यते, सार्थे च लब्धे निर्गच्छन्ति । तथा चाहअनुवसमंते निगम लिंगविवेगेन होइ आगाढे । देसंतरसंकमणं भिक्खुगादी कुलिंगेणं ।। [भा. ८९८ ] वृ- अनुपशमयति उपशममकुर्वति राज्ञि निर्गमो भवति । कथमित्याह - लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिङ्गेनेत्यर्थः । अथ तथापि न मुञ्चति गाढकोपावेशात्, तत आह आगाढं अत्यन्तप्रकोपतो गाढममोक्षणे भिक्षुकादिलिङ्गेन देशान्तर संक्रमणं कर्तव्यम् । अशिवादी वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम् । तत्र तत्र येन पथा गन्तव्यं स कीदृगित्याह [भा. ८९९ ] आयरियसंकमणे परिहरति दिट्ठमि जाव पडिवत्ति । असतीए पविसणं भूमिर्यमि गहियंमि जा जयणा ।। वृ- आर्येन देशेन संक्रमणं तस्मिन् स्वलिङ्गेन गन्तव्यमिति वाक्यशेषः । आर्यसंक्रमणग्रहणतो भङ्गचतुष्टयं सूचितं । तद्यथा आर्यदेश आर्यदेशमध्येन गमनमित्येको भंगः, आर्यदेशे अनार्यदेश मध्येनेति द्वितीयः, अनार्यदेशे आर्यदेशमध्येनेति तृतीयः, अनार्यदेशे अनार्यदेश मध्येनेति चतुर्थः, तत्र प्रथम भंगे अर्ध षड् विंशति जनपद मध्ये, द्वितीय भंगे आर्यदेशे मालव नामक म्लेच्छ देश मध्येन, तृतीय भंगे यथा कुडुकविषये आर्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्य देशमध्येन । इह प्रथमभङ्गेऽशिवादिकारणोपस्थितौ स्वलिङ्गेन गन्तव्यम् । द्वितीय तृतीय चतुर्थभङ्गे तु परलिङ्गेन, तत्र राज्ञि प्रद्विष्टे अशिवादिकारणे वा भिक्षुकादिलिङ्गेन गच्छन् उगमादीन् दोषान् तेषां च लिङ्गिनामाश्रयस्थानानि परिहरति । तथा गच्छन् यदि केनापि क्वापि ग्राम नगरादौ दृष्टो भवेत् तर्हि दृष्टे सति तेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्ति सामाचारी कर्त्तव्या । किमुक्तं भवति ? तत्सामाचार्यवर्तितव्यमिति । अथ तदाश्रयस्थानपरिहारेण समुदानं न लभ्यते ततो असति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्तव्यम् । तत्र यदि तेषां प्रत्ययोत्पादनार्थं बुद्धप्रतिमा स्तूपानि वा वन्दनीयानि भवन्ति । तदा जिनप्रतिमां मनसि सम्प्रधार्य बन्दितव्यानि | भिक्षायां च स्वयं गन्तव्यम्। अथ भिक्षा न लभ्यते, ततो भिक्षुकैः सहभोक्तव्यम् । तत्र यदि पुद्गलं कन्द्रादिकं वा पतति तदा शरीरस्येद् ममामयकारकं वैद्येन निवारितमिति प्रतिषेधयेत् । अथ कथमपि अनाभोगतस्तद्रोषभयतो वा गृहीतं भवेत्तदा तस्मिन् गृहीते या यतना सा कर्तव्या । किमुक्तं भवति अल्पसागारिकंकथमप्यपसार्य विधिना परिष्ठापयेत् । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव गाथां विवृणोति [ भा. ९०० ] आयरिय देसा यरिय लिंगसंकमी एत्थ होइ चउभंगो । बितिय चरमेसु अन्नं असिवादि गतो करे अन्नं । । वृ- अशिवादिषु कारणेषु समुपस्थितेषु आर्यदेशे आर्यदेशमध्येन लिङ्गेन स्वलिंगेन संक्रमो भवति, । वन्मध्येन यत्र च गन्तव्यं तयोरुभयोरपि देशयोरार्यत्वात् अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी गाथायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy