________________
२८६
व्यवहार - छेदसूत्रम् - १- १/३१ तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात् नियुक्तिकृता तत् वारितं प्रायश्चित्तप्रदानात् । नैष दोषोऽभिप्राया परिज्ञानात् निर्युक्तिकृता हि कन्दर्पतः परलिङ्गकरणे प्रायश्चित्तमुक्तं । सूत्रं पुनः कथमपि राज्ञि प्रद्विष्टं यावत्सार्थो लभ्यते, तावत्कालक्षेपः क्रियतामिति हेतोर्वा शब्दो न केवलं विकल्पार्थोऽनुक्तसमुच्चयार्थः स चैतत् समुच्चिनोति । न शक्यते सहसा विषयपरित्यागः कर्तुमितियावत् प्रज्ञापनाक्रियते गमणं वेति गमनं वाऽशिवादि कारणतो अनार्यदेशमध्येन समुपस्थितं तत एतैः कारणैर्यस्य राज्ञो ये पूज्या भिक्षुकादयः भिक्षुकाः । शौद्धोदनीयाः । आदिशब्दात्परिब्राजकपएडरागादिपरिग्रहः । तल्लिङ्गं गृह्णीयादित्येतद्विपर्यमतो न कश्चिद्दोषः । एनामेव गाथां भाष्यकृद् व्याख्यानयति[भा. ८९४ ] खंधे दुवार संजइ गरुडद्धं सेय पट्टलिंगदुवे | लहुओलहुओलहुया तिसु चउगुरु दोसु मूलंतु ।।
2
वृ- इह पूर्वार्धोत्तरार्धपदानां यथासंख्येन योजना । सा चैवं यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासः दुवारेति गोपुच्छिकं करोति तदापि लघुको मासः, संयतीप्रावरणकरणे चत्वारो लघुमासाः । गरुडादिपरलिङ्गकरणे चत्वारो गुरुकाः । अद्धंसेति अर्धमंसे स्कन्धे दिगम्बर इव यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः, । 'पट्टत्ति यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुकाः, । लिंगदुवे इति लिङ्गद्विकं गृहिलिङ्गं परपाषएडलिङ्गं च तस्मिन् गृहि लिङ्गे पारपाखण्डलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् । सम्प्रति कालक्खेवो गमनं वा इत्येतद्व्याख्यानार्थमाह[भा. ८९५ ]
असिवादिकारणेहिं रायटुडेवि होज्ज परलिंगं । कालक्खेवनिमित्तं पणवणड्डावगमणट्टा ।।
वृ- अशिवं देवताकृत उपद्रवः, आदिशब्दादवमौदर्यादि परिग्रहस्तेषु अशिवादिषु कारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् तथाद्वेषणं द्विष्टं राज्ञिद्विष्टं राजद्विष्टं राज्ञः प्रद्वेष इत्यर्थः । तस्मिन् वा सति परलिङ्गग्राह्यंभवेत् । किमर्थमिति चेदत आह कालेत्यादि यावत्सार्थो लभ्यते तावत् खलु परलिङ्गग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलुसहसा विषयः परित्यक्तु मिति यावद्राज्ञः प्रज्ञापना क्रियते तावद्ग्राह्यं परलिङ्गमितिप्रज्ञापनार्थं यदि अशिवादिकारणेषु समुपस्थितेष्वनार्यदिशमध्ये गमनमुपजातं तच्चानार्यदेशमध्येन गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थं वा परलिङ्गग्रहणां अथ कस्य परलिङ्गग्राह्यमित्याशङ्कय भिक्खुगादी इत्येतद्वयाख्यानयति । जंजरस अच्चियं तस्स पूयणिज्जं तमास्सिया लिंगं ।
[ भा. ८९६ ]
खीरादिलद्धिजुत्ता गर्मति तं छन्नसामत्था ।।
- यत् भिक्षुकादिगतं लिङ्गं यस्य राज्ञोऽर्चितं भावेक्तप्रत्ययो मान्य मित्यर्थः । तत्रार्चितमपि नावश्यं कस्याप्यनतिक्रमणीयं भवति ततोऽनतिक्रमणीयता प्रतिपादनार्थमाह- तस्य राज्ञो यत्पूजनीयं अनतिक्रमणीयं तल्लिङ्गमाश्रितास्तल्लिङ्गं प्रतिपन्नाः छन्नसामर्थ्याः परलिङ्गग्रहणेनाच्छादितस्वरूपाः तं राजानं गमयन्ति उपशमयंति । कीदृशा उपशमयन्तीत्यत आह-क्षीरादिलब्धियुक्ताः क्षीराश्रवलब्धिसम्पन्नाः । आदिशब्दाद् विद्यामन्त्रयोगादि वशीकरणकुशला इति परिग्रहः । ।
[ भा. ८९७ ]
कलासु सव्वासु सवित्थरासु आगाढ पणहेसु य संथवेसु । जो जत्थसत्तोतमनुपविरसे, अव्वाहतो तस्स स एव पंथा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org