________________
उद्देशक : १,मूल:३०. [भा. ८८०]
२८३ सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनंगर्भपातनमित्यादिचूर्णयोगादयश्चप्रतीताः । एतानियउपजीवति सचरणकुशीलः । सम्प्रत्याजीवं व्याख्यानयतिभा.८८१) जाति कुले गणेयाकम्मे सिप्पे तवे सुए चेव ।
सत्तविहं आजीवं उवजीवति जो कुसीलो उ ।। वृ-जातितिकी, कुलं पैतृकं, गणो मल्लगणादिः । कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं,तपः श्रुते प्रतीते । एवं सप्तविधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जातिं कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्धयामल्लगणादिभ्योगणेभ्योवागणविद्याकुशलत्वंकर्मशिल्पकुशलेभ्यःकर्मशिल्पकौशलंकथयतितपसा उपजीवना तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, बहुश्रोतऽहमिति स कुशील इति साम्प्रतमेतेषुकौतुकादिषुप्रायश्चित्तमाह[भा.८८२] भूतीकम्मे लहुओ लहु गुरुनिमित्तसेसए इमंतु ।
___ लहुगाय सयंकरणेपरकरणे होतनुग्धाया ।। वृ-भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथन चत्वारो लघुमासाः । वर्तमाननिमित्तकथने चत्वारोगुरुमासाः,शेषकेकौतुकादौ इदंप्रायश्चितं-स्वयं कौतुकादिकरणेचत्वारोलघुकाः। परैः कारणेभवन्ति चत्वारोऽनुद्धाता गुरवोमासा, मूलकर्मकरणे मूलमितिगतंकुशीलसूत्रमिदानीमवसन्त्रसूत्रं वक्तव्यं । तच्च प्राग्वद्भावनीयम् । सम्प्रत्यवसन्नप्ररूपणामाह[भा.८८३] दुविहो खलुओसन्नो देसे सव्वे यहोइनायव्यो ।
देसोसन्नो तहियं आवासाईइमो होइ ।। वृ- अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा-देशदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाद्यधिकृत्यायं वक्ष्यमाणोभवति । तमेवाह[भा.८८४] आवस्सगसज्झाएपडिलेहणज्झाणभिक्खभत्तठे ।
आगमने निग्गमने ठाणे य निसीयणतुयट्टे ।। वृ- आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योद्यतो गाथाक्षरयोजना, भावार्थस्त्ववम् - 'आवश्यकमनयितकालं करोति, यदि वा हीनं हीनकार्योत्सर्गादिकरणात् अतिरिक्तं वा अनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात अथवा यदेवसिके आवश्यक कर्तव्यंतत रात्रिकेकरोति, रात्रिके कर्तव्यं दैवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणं अर्थपौरुषीलक्षणं वा कुरुध्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्ठंजल्पित्वा अविप्रियेण करोतिन करोति वा, सर्वथा विपरीतं वा करोति, । कालिकमुत्कालिकवेलायामुत्कालिकं वा कालवेलायां, प्रतिलेखनामपि वस्त्रादीनामावर्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालनध्यायतितथा भिक्षांन हिण्डते, ।गुरुणावा भिक्षांनियुक्तोगुरुसम्मुखं किञ्चिदनिष्टंजल्पित्वा हिण्डते,तथा भक्तार्थभक्तविषयंप्रयोजनंसम्यग्न करोति, किमुक्तंभवतिनमण्डल्यां समुद्दिशति, काकशृगालादिभक्षितं वा करोति, अन्ये तु व्याचक्षते, । अभत्तठत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणंतत्रायमर्थः प्रत्याख्यानंनकरोति ।गुरुणा वा भणितो गुरुसम्मुखं किञ्चिदनिष्ट-मुक्त्वा करोति, । आगमननैषेधिकी न करोति निर्गमने आवश्यकी, स्थाने ऊर्ध्वस्थाने निषदने उपवेशने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org