________________
२८२
व्यवहार - छंदसूत्रम्-१-१/३० सामान्यतः प्राह-पासत्थेत्यादि, पार्श्वस्थे यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवर्द्धितं विशेषेणवर्द्धितंजानीहि ।तच्चतथैवानन्तरमुपदर्शितं,करमाद्विवर्धितंजानीहीतिचेत् उच्यतेप्रसिद्धसेवनात् कुप्ररूपणाया बहुदोषत्वादिहपार्श्वस्थत्वं त्रयाणामपि सम्भवति । तद्यथा भिक्षार्गणावच्छेदिन आचार्यस्य च, यथाच्छन्दत्वं पुनर्भिक्षाव ततः पार्थस्थविषयं सूत्रं त्रिसूत्रात्मकं यथाच्छन्दविषयं त्वेकस्वरूपमिति ।। सम्प्रति कुशीलादीनांप्रायश्चित्तविधिमतिदेशत आह[भा.८७७] पासत्ये आरोवण ओहविभागेन वणिया पुटवं ।
साचेव निरवसेसाकुशीलमादीण नायव्वा ।। वृ- यैव पूर्व पार्श्वस्थे प्रायश्चित्तस्यौधेन विभागेन चारोपणाप्रदानमुपवर्णिता सैवनिरवशेषा ओघेन विभागेनचज्ञातव्या, यत्रतुविशेषः सतत्रवक्ष्यते, गतंयथाच्छन्दः सूत्रमिदानी कुशीलसूत्रंवक्तव्यं, तच्च प्राग्बद्भावनीयम् अधुना कुशील प्ररूपणामाह[भा.८७८] एतो तिविहकुसीलंतमहं वोच्छामि अहानुपुव्वीए ।
दंसणनाणचरित तिविह कुसीलो मुनेयव्यो ।। वृ. इतो यथाच्छन्दः प्ररूपणानन्तरं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि । यथा प्रतिज्ञातमेव करोति, दंसणेत्यादि त्रिविधः कुशीला ज्ञातव्यः । तद्यथा-दर्शने ज्ञाने चारित्रे च । एतदेव व्याचिख्यासुरिदमाह[भा.८७९] नाणे नाणायारं जोउ विराहेइकालमादीयं ।
दसणेदंसणायारंचरणकुसीलो इमोहोइ ।। वृ-योज्ञानाचारकालादिकंकालेविनए इत्यादिम्पविराधयतिसज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारंनिःशङ्कितत्वादिकं विराधयतिस दर्शन दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवतितमेवाह[भा.८८० कोउय भूतिकम्मेपसिणापसिणेनिमित्तमाजीवी ।
कक्ककुरुयाय लक्खणमुवजीवति विजमंतादी ।। वृ-कौतुकं नामआश्चर्यं यथामायाकारको मुखेगोलकान प्रक्षिप्यकर्णेन निष्काशयति, ।नाशिकया वा तथा मुखादग्निं निष्काशयतीत्यादि । अथवा परेपां सौभाग्यादिनिमित्तं यत्स्नपनादि क्रियते । एतत् कौतुकं । उक्तं च-'सोहगादिनिमित्तं परेसि ण्हवणादि कोउगंभणियमिति,' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन क्षारण रक्षाकरणं, ‘जरियादिभूतिदाणं भूतीकम्मविणिदिट्टमिति' वचनात्प्रश्नाप्रश्नं नाम यत्स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यःकथनम् । उक्तं च
सुविणगविजा कहियं आयं खणिघंटियादि कहियंवा ।
जंसीसइ अनेसिंपसिणापसिणं हवइ एयं ।। निमित्तमतीतादिभावकथनं । तथा आजीवो नाम आजीवि(व)कः । स च जात्यादिभेदतः सप्तप्रकाराः तान्, तथा कल्को नाम प्रसूत्यादिपूरोगेषुक्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतोवा लोध्रादिभिरुद्धर्तनं, तथा कुरु(र)का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधनाविद्याअसाधनोमन्त्रः ।यदिवायस्याधिष्ठात्री देवतासा विद्यायस्यपुरुष:समंत्रः आदिशब्दात मूलकर्मचूर्णादिपरिग्रहः । तत्रमूल कर्मनामपुरुषद्वेषिण्याः सत्याअपुरुषद्वेषिणीकरणमपुरुषद्वेषिण्याः
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org