________________
२८४
व्यवहार - छेदसूत्रम्-१-१/३० त्वग्वर्त्तन शयने एतेषु क्रियमाणेषुन प्रत्युपेक्षणं करोति, नापि प्रमार्जनं करोतिवा प्रत्युपेक्षणप्रमार्जन दोषदृष्टे वाकरोति, साम्प्रतमावश्यकद्वारं व्याख्यानयति[भा.८८५] आवस्सयं अनिययंकरेइहीनातिरित्तविवरीयं ।
गुरुवयणेणनियोगे, वलाइईणमा उओसन्नी ।। वृ-आवश्यकमनियतमनियतकालंयदिवाहीनमथवातिरिक्तविपरीतंवाकरोति, गुरुराचार्यस्तस्य वचनंगुरुवचनं तेन नियोगोव्यापारणंतस्मिन् सतिसंमुखो वलति । किमुक्तंभवति? गुरुणा भिक्षादिषु नियुक्तः सन् गुरुसम्मुखमेव किञ्चिदनिष्टं भाषमाणो वलते, न गुरुवचस्तथैवानुतिष्ठति । एष देशतोऽवपन्नः अत्र प्रायश्चित्तविधिः पार्श्वस्थस्येवानुसरणीयः ।
यदुक्तं 'गुरुसम्मुखो वलते' इतितत्सविशेष विवृणोति । [भा.८८६) जह उबइलो बलवंभंजतिसमिलं तुसोविएमेव ।
गुरुवयणं अकरतो वलाइ कुणती च उस्सोढुं ।। वृ-यथा बलवान् वलीवर्दःप्रेरितःसन्दुःशीलतया संमुखंव्यावर्तमानः समिला भनक्ति । एवमेव अनेनैव प्रकारण सोऽप्यवसन्नो गुरुवचनमकुर्वन् सम्मुखो वलतेन पुनः करोति, ततः कार्यकरो वा उत्साह्य उत्शब्दोऽत्रनिषेधार्थे असोढा इत्यर्थः । किमुक्तंभवति? गुरुसंमुखंकिञ्चिदनिष्टमुक्त्वारुपन् करोतीति उक्तो देशतोऽवसन्नः । सर्वतोऽवसन्नमाह[भा.८८७] उउबद्धपीढफलगं ओसन्नं संजयं वियाणाहि ।
ठवयिगरइयगभाइ एमेयापडिवत्तितो ।। वृ- यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृत्संस्तारकः सोऽवद्धपीठफलकः तंसंयतंसर्वतोऽवसन्नं विजानीहि । तथायःस्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भांजी रचितकं नाम काश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्धया वैविक्त्येन स्थापितं तद्भुड्कइत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसन्नं जानीहि । एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयोवेदितव्याः ।। अधुना प्रायश्चित्तविधिमाहभा.८८८] सामायारी वितहं ओसन्नी जंच पावए जत्थ ।
संसतोच अलंदो नडरूवी एलगोचेव ।। वृ-सामाचारीज्ञानादिसामाचारी कालेविनए' इत्यादि रूपांवदिवासूत्रमण्डल्यर्थ मण्डल्यादिगतां सामाचारी वितथांकुर्वन् यथास्थाने यत्प्रायश्चित्तं प्राप्नोति, तत्रतस्यस्वस्थाननिष्पन्नंप्रायश्चित्तमिति गतमवसन्नसूत्रम् । सम्प्रति संसक्तसूत्रं वक्तव्यं, तच्च प्राग्वत्परिभावनीयम् । अधुना संसक्तपरूपणामाह-संसत्तोव' इत्यादिसंसक्तोऽलिंदइव नट इव बहुरूपी नटरूपीएडकइवचज्ञातव्य इतिशेषः। एतदेव व्याचिख्यासुराह[भा.८८९] गोभत्तालंदोविव बहुरूवनडोव्व एलगोचेव ।
संसत्तोसो दुविही असंकिलिट्टोव इयरीवा ।। वृ- गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्द इव । किमुक्तं भवति ? । यथा अलिन्दे गोभक्तं कुक्कुसाओदनभिस्सटा अवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते । एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशोभवति संविनेषु मिलितः संविग्नसदृशः स संसक्त इति । यथावा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org