________________
२७८
व्यवहार - छेदसूत्रम्-१- १/३० त्वन्तिमपदहास इतिगतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रंवक्तव्यम् । तच्च प्रागेवोपदर्शितम् ।
इदानीं यथाच्छन्दस्वरूपंवर्णयति[भा.८६१] उस्सुत्तमायरंतो उस्सूत्तंचेव पन्नविमाणो ।
एसा उ अहाछंदो इच्छाच्छंदो यएगठा ।। वृ-सूत्रादुर्ध्वं उत्तीर्णं परिभ्रष्टमित्यर्थः । उत्सूत्रंतदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन वर्तते एषयथाच्छन्दोऽभिधीयते । सम्प्रतिच्छन्दः शब्दार्थंपर्यायेणव्याचष्टे ! इच्छाच्छन्दइत्येकार्थः । किमुक्तंभवति?च्छन्दोनाम इच्छेतिव्युत्पत्तिश्चयथाच्छन्दशब्दस्यप्रागेवोपदर्शिताउत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति[भा.८६२) उस्सुत्तमनुवदिउँसच्छंदविगप्पियंअननुवादी।
परतत्तिय पवित्तेतिंतणेव एसोअहाच्छंदो ।। वृ- उत्सूत्रं नाम यत्तीर्थङ्करादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता समाचारी । यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वाकायोत्सर्ग कुर्वन्ति । वारणानांवन्दनकेकथमपीत्युच्यतेइत्यादिसाप्यङ्गेधूपाङ्गेयु नोपदिष्टेत्यनुपदिष्टं शङ्कत ततोऽनुपदिष्टमाह-सच्छन्दन स्वाभिप्रायेन विकल्पितं रचितं स्वेच्छाकल्पितमित्यर्थः । अतएवाननुपातिसिद्धान्तेनसहाघटमानकंनकेवलमुत्सूत्रमाचरन्प्रज्ञापयंश्च यथाच्छन्दः किन्तु यः परतत्तिषु गृहस्थप्रयोजनेषुकरणकरणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तितिणो नामयः स्वल्पेऽपिकेनचित्साधुनापराद्धेऽनवरतंपुनः पुनस्तंरुषन्नास्तेऽयमेवंरूपो यथाच्छन्दः तथा[भा.८६३] संच्छंदमतिविगप्पिय किंची सुखसाय विगइपडिबद्धो !
तिहिंगारवेहिंमजतितं जाणाही अहाच्छंद ।। वृ- स्वच्छन्दमतिविकल्पितं किञ्चित्कृत्वा तल्लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद्विकृतीर्लभते । ताश्च विकृतीः परिभुजानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठति तथा चाह-सुखस्वादने सुखास्वादे विकृतौ च प्रतिबद्धः । तथा तेन स्वच्छन्द: मतिविकल्पितप्रज्ञापनेन लोकपूज्योभवति । अभिष्टस्सांश्चाहारान्प्रतिलभतेवसत्यादिकंचविशिष्टमतः सआत्मानमन्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गौरवैर्ऋद्धिरससालक्षणैर्माद्यतियएवंभूतस्तंयथाच्छन्दं संजानीहि । इह उत्सूत्रंप्ररूपयन् यथाच्छन्दउच्यतेततउत्सूत्रप्ररूपणामेवभेदतः प्ररूपयति[भा,८६४] . अहच्छंदस्स परूवणउस्सुत्तादुविह होइनायव्वा ।
चरणेसुगईसुजा, तत्थ चरणे इमाहोति ।। वृ-यथाच्छन्दसः प्ररूपणा उत्सूत्रासूत्रादुत्तीर्णाद्विधा भवतिज्ञातव्या ।तद्यथा-चरणेषुचरणविषया गतिषुगतिविषया, ।तत्रया चरणेचरणविषयासा इयं वक्ष्यमाणा भवति तामेवाह[भा.८६५] पडिलेहण मुहपोत्तिय स्यहरण निसेन पाय मत्तए पट्टे |
. पडलाइंचोलउन्नादसिया पडिलेहणा पोत्ते ।। वृ-या मुखपोत्तिका मुखवस्त्रिका सैव प्रतिलेखनीया पात्रप्रत्युपेक्षया पात्रकेसरिकाः किं द्वयोः परिग्रहेणअतिरिक्तोपधिग्रहणेन संभवात् । तथा रयहरणनिसेज्जत्ति किंरजाहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यमित्येका निषद्यास्तु, पायमत्तएत्ति यदेवपात्रं तदेवमात्रं क्रियताम् मात्रकं वा पात्रं किं द्वयोः
Jain Education International
For Private & Personal Use Only
Ford
www.jainelibrary.org