________________
२७७
उद्देशक : १, मूलं:३०, [भा. ८५७) तेभ्यःआहारादिकमुत्पादयति । 'ठवण त्तिस्थापनाकुलानिनिर्विशति । अथवा यानि लोकेगर्हितानि कुलानि तानि स्थापितान्युच्यन्ते । तेषामपरिभोग्यतया जनैः स्थापितत्वात् तेभ्यः आहारादिकमुत्पादयति । पलोयण त्ति सङ्खड्याः सततमाहारालोल्यतः प्रलोकना येन क्रियते शरीरस्य वा शुभवर्णादिनिरीक्षणार्थं प्रलोकना ।तथाअभ्याहृतानि आचीर्णाननाचीर्णाश्चाहारान्यो गृह्णाति । यस्तु पूर्वसंसक्तान् मातापित्रादीन् पश्चात्संस्तुतान् श्वश्रूप्रभृतीन उपजीवति, यदि वा पूर्वपरिचितानप्याहारलोल्यतः पूर्वसंस्तुतान् पश्चात्संत्सुतान् वा करोति । तथा नित्यपिण्डमग्र पिण्डं च यो भुक्ते स देशतः पार्श्वस्थः ।।साम्प्रतमभ्याहृतपिण्डं नियतपिण्डंच व्याख्यानयति[भा.८५८) आइणमनाइणं निसीह भिहडंचनो निसीहंच |
साभावियंचनिययं निकायण निमंतणेलहओ ।। वृ- अभ्याहृतं द्विविधमाचीर्णमनाचीर्णं च । तत्राचीर्णमुपयोगसंभवे गृहत्रयमध्ये, ततः परमनाचीर्णमुपयोगासम्भावात् । अनाचीर्णमपि द्विविधा-निशीथाभ्याहृतंनोनिसीथाभ्याहृतंच । तत्र यत्साधोरविदितमभ्याहृतंच तन्निशीथाभ्याहृतमितरत्साधोर्विदितमानीतंनो निशीथाभ्याहतं । एतानि कारणेनिष्कारणेवाकथंचित्यथाभिगृह्णानोदेशतः पार्श्वस्थः, नियतं त्रिविधम् । तद्यथा-स्वाभाविकं, निकाचितं, निमन्त्रितं च । तत्र यन्त्रसंयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रंपिएडादिदीयते,तस्वाभाविकम् । यत्पुनर्भूतिकर्मादिकरणतश्चतुर्मासादिकंकालंयावत्प्रतिदिवसं निकाचित् निबद्धीकृतं गृह्यते तन्निकाचितम् । यत्तुदायकेन निमन्त्रणापुरस्सरं प्रतिदिवसंनियतंदीयते तन्निमन्त्रितम् । एतान्यपि गृह्णानो देशतः पार्श्वस्थः, स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघुः । अथ पार्श्वस्थो भूत्वा कथं संविग्नविहारमुपपद्यते येनोच्यते-'स इच्छेजा दोच्चं तमेव ठाणंउवसंपज्जित्ताणं विहरित्तए' इत्यादि, तत आह[भा.८५९] संविग्न जनोजड्डोजह सुहितो सारणाए चइओउ ।
वच्चइ संभरमाणोतंचेवगणं पुनो एति ।। वृ-इह संविग्नो जनो जड्डु इव हस्तीव वेदितव्यः । तथाहि-यथा हस्ती वनादानीतो घृतगुडादिभिः पुष्टिंनीतःस्मृत्वा वनंजगाम ।तच्चवनमनावृष्टिभावतोऽवारीभूतं । ततस्तत्रदुःखमनुभवत्घृत्तगुडादिकं स्मरति, स्मृत्वाचभूयो नगरमायाति । एवं सोऽप्यधिकृतः संविग्नो जनःसंविग्नानांमध्ये भगवत्प्रसादत उत्कृष्टौराहारः पोषमुपागतस्ततः सुखितः सन्स्मारणामसहमानस्तयात्याजितः पार्थस्थविहारमुपपद्यते । तत्रचस्थितः पार्श्वस्थइति कृत्वाश्राद्धादिभिर्नाद्रियते केवलंलोकतआक्रोशमवाप्नोति । यथायंधिक शिथिलो जात इति । ततः संविग्नानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति । समागतश्च सन्नालोचनाद्यर्थमभ्युत्तिष्ठति । तत इदमाह[भा.८६०] अस्थिय सेसावसेसं, जइनत्थी मूलमत्थि तवच्छेया; |
थोवं जइआवनोपडितप्पए साहुणा सुद्धो ।। वृ- पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति । चशब्दात किंवा नास्ति । ततो मूलं दातव्यम् । मूलं नाम सर्वपर्यायोच्छेदः । अथास्ति चारित्रं ततस्तस्मै तपोवा दीयतां च्छेदो वा । तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपञ्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः । ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते । मासाद्यापत्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org