________________
२७६
व्यवहार - छेदसूत्रम्-१-१/३० चान्तिमपटहासस्य भावना प्रागेव कृता । इतरस्मिन् साधूनामप्रतर्पिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं तस्यान्यथाशुद्ध्यभावात् । ततोन वयंरागद्वेषवन्तः । सम्प्रतिपार्श्वस्थान व्याख्यानयति[भा.८५३] दुविहो खलु पासत्थो देसे सव्वे व होइनायव्यो।
सव्वे तिन्नि विकप्पादेसे सेज्जायर कुलादी ।। वृ-द्विविधो द्विप्रकारः, खलु निश्चितं पार्श्वस्थः । तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः; शब्दः संस्कारमाश्रित्य त्रयो विकल्पास्त्रयः प्रकारास्तद्यथा-पार्श्वस्थः प्रास्वस्थः पाशस्थश्च । एते स्वयमेवाग्रे वक्ष्यन्ते । देशे देशतः पार्श्वस्थः, शय्यातरकुलादिप्रतिसेवमानः, 'तिनि विगप्पा' इत्युक्तं तत्रप्रथमप्रकारमाहभा.८५४) दंसणनाणचरिते तवेय अत्ताहितोपवयणेय ।
तेसिंपासविहारी पासत्थं तं वियाणेहि ।। वृ-दर्शनंसम्यक्त्वं,ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषांसमाहारो द्वन्द्वस्तस्मिन् । तथा तपसि बाह्याभ्यन्तररूपेद्वादशप्रकारे प्रवचनेच द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग योगवानित्यर्थः । यदि वा अहितस्तेषां विराधकत्वात् । किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी ।नतेपुज्ञानादिष्वन्तर्गतइत्यर्थः । स पार्श्वस्थ इति विजानीहि, ज्ञानादीनांपार्श्वे तिष्ठतीति व्युत्पत्तेः ।इहयद्यपियोदुष्करमाश्रवं निरोधंकरोतिसपरमार्थतस्तपोयुक्तएवेतिवचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयोरुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ; भवति च तपोमोक्षप्रतिप्रधानमनपूर्वसञ्चितकर्मक्षपणत्वात्प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः ।। सम्प्रति द्वितीयप्रकारमाह[भा.८५५ सणनाणचरित्ते सत्तो अच्छति तहिं न उज्जमति ।
एएणं पासत्थो, एसो अन्नो वि पज्जाओ ।। वृ- ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यम करोति । एतेन कारणेनेष पार्श्वस्थउच्यते । प्रकर्षणासमन्तात्ज्ञानादिषु निरुद्यमतयास्वस्थः प्रार्श्वस्थ इति व्युत्पत्तेः । एषखलु अन्यो द्वितीयोऽपिपर्यायः । अपिशब्दः खल्वर्थे भिन्नक्रमश्च । स च यथास्थानं योजितः । उक्तो द्वितीयः प्रकारः ।। सम्प्रति तृतीयमाह|भा.८५६] पासोत्ति बंधणंतियएगटुंबंधहेयवोपासा ।
पासत्थिओ पासत्थो अन्नो वियएस पज्जाओ ।। .. वृ-पाश इतिवाबन्धनमिति वा एकार्थम् ।इहये मिथ्यात्वादयोबन्धहेतवस्ते पाशाइव पाशास्तेषु स्थितः पाशस्थः । पाशेषु तिष्ठतीति पाशस्थ इति व्युत्पत्तेः । एषोऽन्यः खलु तृतीयः पर्यायः । उक्तास्त्रयोऽपिप्रकारास्तद्भणनाच्चभणितः सर्वतः पार्थस्थः । । इदानींदेशतः पार्श्वस्थव्याचिख्यासुना यदुक्तं 'सेजायर कुलादी' इति तद्व्याख्यानयति[भा.८५७) सेज्जायर कुल निस्सिय ठवणकुल पलोयणा अभिहडेय !
पुब्बिं पच्छासंथव निइअग्गपिंड भोइपासत्थो ।। वृ-यः शय्यातरपिण्डंभुङ्क्तेयानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति । किमुक्तंभवति? यानि कुलानि तस्याग्रेसम्यक्त्वंप्रतिपन्नानि येषुग्रामेषु नगरेषुवा वसन्ति, तेषु गत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org