________________
उद्देशक : १. मूलं : ३०, [भा. ८३.८ ]
निर्दिष्ट इतीदमोधेन प्रायश्चित्ताभिधानमिदानीं कालं सामान्यत आहचउछम्मासे वरिसे कबाइ लहुगुरुय तहय छग्गुरुगा । एएस चेवभिक्खं च गुरु तह छन्गुरुच्छेदो ।।
[ भा. ८३९ ]
वृ- चतुरो मासान् यावत् कदाचित् अपिगृहीतवान् यदि शय्यातरपिण्डं ततश्चत्वारो लघुकाः षण्मासान् कदाचिद्ग्रहणे चत्वारो गुरुकाः, वर्षं यावत् कदाचिदभिगृहीते पण्मासा गुरवः, एतेष्वेव चतुर्मासाः षण्मासवर्षेषु अभीक्ष्णग्रहणं यथाक्रमं चतुर्गुरु, पट् गुरुच्छेदश्च, किमुक्तं भवति । चतुरो मासान् यावदभीक्ष्णग्रहणेचत्वारो गुरुका मासाः, षण्मासानभीक्ष्याग्रहणेषण्मासाः गुरवः, वर्षं यावदभीक्ष्णग्रहणे च्छेदः, । अत्रोत्सवानुत्सवविशेषरहिततया सामान्येनाभिधानं तथा चाहएसे उ होति ओहे, एत्तो पयविभागतो पुनो वोच्छं । चउत्थमासे चरिम, ऊसववज्जं जइ कयाइ ।। लहुओलहुया गुरुया इत्तो अभिक्खगहणंमि । चउरो लहुया गुरुया छग्गुरुया ऊसवविवज्जा ।।
[ भा. ८४० ]
,
[ भा. ८४१ ]
वृ- एषामनन्तरोक्तः प्रायश्चित्तविशेषः ओघेन सामान्येन भवति द्रष्टव्यः । अत ऊर्ध्वं पुनर्विभागतः पदविभागेन प्रायश्चित्तं वक्ष्ये । यथा प्रतिज्ञातं करोति, चतुरो मासान् यदि कदाचित् उत्सववर्जमगृहीतशय्यातरपिण्डं ततो मासलघु, षण्मासानुत्सववर्जमभिगृहीते चत्वारो लघुकाः, वर्षं यावदुत्सववर्जं कदाचिदभिग्रहणे चत्वारो गुरुकाः, । इतर ऊर्ध्वमेतेष्वेव चतुः षड्वर्षेऽभीक्ष्णग्रहणे वक्ष्ये चत्वारो लघुका गुरुकाः षट्गुरुका उत्सववर्जायथाक्रमं ज्ञातव्याः । किमुक्तं भवति ? चतुरो मासानुत्सववर्जंशय्यातरपिण्डमभीक्ष्णमगृहीत् ततः प्रायश्चित्तं चत्वारो मासाः लघुकाः, षण्मासानुत्सववर्जमभीक्ष्णग्रहणे चत्वारो गुरुकाः, वर्प यावदुत्सववर्जमभीक्ष्णग्रहणे पट् गुरुकाः, उत्सववर्जे गतमिदानीमुत्सवे प्रतिपादयतिचउरो लहुया गुरुगा छम्मासा ऊसंवमि उकयाई ।
,
[ भा. ८४२ |
एवं अभिक्खगहणे छग्गुरु चउछगुरुच्छंदो ।।
वृ-चतुरी मासान् यदि कदाचिदुत्सवे गृहीतवान् ततञ्चत्वारी मासा लघवः, षण्मासान् कदाचिदुत्सवे ग्रहणे चत्वारो गुरुकाः, वर्षं यावत्कदाचिद्गृहणतः षण्मासा गुरवः एतत्पुनर्वक्ष्यमाणमभीक्ष्णग्रहणे षट् गुरु इत्यादि, चतुरो मासानुत्सवेष्वभीक्ष्णग्रहणे षण्मासा गुरवः, षण्मासानुत्सवे ष्वमीक्ष्णग्रहणे चतुर्गुरुकछेदः वर्षं यावदभीक्ष्णमुत्सवेषु ग्रहणे षट्गुरुकच्छेदः अथ कस्मादुत्सवेषु कदाचिदभीक्ष्णं वाग्रहणे अधिकतर प्रायश्चित्तदानमत आह
[ भा. ८४३ ]
उत्सववज्जे न गण्हइ निब्बंधो ऊसवंमि गेण्हत्ति । अज्झायरगादीया इति अहिगाउसवे सोही ।।
बृ- एष साधुरुत्सववजें उत्सवरहिते शेषे काले भिक्षां न गृहणाति । उत्सवे पुनर्विपुलं भक्तपानं प्रासुकमुपलभ्य कथमपि निर्बन्धात् गाढादरकरणाद्गृह्णाति । ततोऽस्मै पर्याप्तं दातव्यमिति किञ्चित् न अध्यवपूरकादयो दोषाः सम्भवन्ति । आदिशब्दात् मिश्रकादिदोषपरिग्रहः इति अस्माद्धेतोरुत्सवे अधिकाबहुतरा शोधिः प्रायश्चित्तमिति ।
एवं उवठियस्स पडितप्पिय साहूणो पदं हसति ।
[भा. ८४४] 2118
Jain Education International
For Private & Personal Use Only
२७३
www.jainelibrary.org