________________
२७०
व्यवहार -छदसूत्रम्-१. १२५ [भा.८२८] आसन्नातोलयो दूरनियत्तस्स गुरत्तरोदंडो ।
चोयगसंगामटुगंनियट्टखिसंत अनुग्धाया ।। वृ- संयत्या आसन्नात्प्रदेशान्निवृत्त लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः । दूरान्निवृत्तस्य गुरुतरश्चत्वारी गुरुमासाः; एवमाचार्येण प्ररूपिते चोदकः प्रश्रयति । तत्र चोदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तंच भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिसंतित्ति हीलयन्ति तेपामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्धसंक्षेपार्थः । । इदानीमेतदेवीत्तरार्ध विवरीषुः प्रथम-तचोदकवचनंभावयति । [भा.८२९ दिटुं लोएआलोयभंगि वणिएय अवनियनियत्तो ।
अवराहे नाणत्तं न रोयए केन यंतुझे ।। वृ-प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्रयति । ननु संयत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेणदण्डेन भवितव्यम् ।रात्प्रतिनिवृत्तस्यलघुतरण, नचैतदनुपपन्नंयतोलोकपिदृष्टंतथा कस्य राज्ञो नगरम परोराजा वेष्टयितुकामः समागच्छति ।तंचसमागच्छन्तं श्रुत्वा नगरस्वामीभटान्प्रेषयति । यथा यूयं तत्र गत्त्वा युध्यध्यमिति । तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्योयुध्ध्वा चिरकालं सजातव्रणोभग्नः समागतः । अपरः परबलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः । तत्रैषां भटानां मध्ये यः आलोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः । यः पुनः सञ्जाताव्रणो यश्चाव्रणितएतौ द्वावपिभग्नौसन्तौ प्रतिनिवृत्तावित्यपराधिनी केवलमालोकभङ्गयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवंलोकेदूरासन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्' ।तत एव दृष्टान्तबलेन वन्मयोक्तं संयत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य भूयान् दण्डादूरात्प्रतिनिवृत्तस्याल्पतर इतिततः केन कारणेन युष्मभ्यंन रोचते । सूरिराह[भा.८३०] अक्खयदेह नियत्तं बहुदुक्खभयेणजसमाणेह ।
एयमहं न रोयतिकोते विसेसो भवे एत्थ ।। वृ- यद्वहु दुःखभयेन परवलेन सह युध्यमानस्य प्रभूतदुःखं मरणपर्यवसानं भविष्यतीति भयेनाक्षतदेहः सन् निवृत्तः प्रतिनिवृत्तोऽक्षतदेहनिवृत्तस्तंसमानय एतन्मह्यं न रोचते विषमत्वात्तथाहि सर्वथा अत्राक्षतचारित्रः प्रतिनिवर्तते किन्तु क्षतचारित्रस्ततोऽप्यत्र स उपन्यसनीयो योऽधिकृतदार्टीतिकेन सहसमानतामवलम्बते, न चासौ तथेति पर आह-यदेष दृष्टान्तस्तव न भासते ततः कोऽत्रास्मिन् विचारे तव विशेषोभवेत् विशिष्टो दृष्टान्तः स्यात्सूरिराह[भा.८३१) एसेव य दिदंतो पुररोहे जत्थ वारियंरन्ना ।
माणीह तत्थनियंते दूरासन्नेय नाणत्ता ।। वृ- एष एव भवदुपन्यस्तो दृष्टान्तः पुरराधे सति द्रष्टव्यो यत्र पुररोधे गज्ञा वारितं तथा मा कोऽपि पुरानियासीदिति तत्रैवं निवारिते तत्र निर्गच्छति । दूरासन्नाच्च प्रतिनिवृत्तं यथा नानात्वमपराधविषयं तदिहापि योजनीयम् । तद्यथा-परचलेन नगररोधे कृतेराज्ञा पटहेन घोषितं यथा यो नगरान्निर्यास्यतिस मयानिर्ग्राह्य इति । ततः कोऽपि निर्गत्य आसन्नात्मतिनिवृत्तोऽपरो दूरात्तत्र यथैतयोरासन्नात्प्रतिनिवृत्तस्याल्पतरो राज्ञा दण्डो दूरात्प्रतिनिवृत्तस्य बहुतर एवं यो दूरात्संवत्याः प्रतिनिवृत्तस्तस्य गरीयान भावदोष इतिचतुर्गुरुकमासन्नात्प्रतिनिवृत्तस्यत्वल्पीयान् भावदोष इतिचतुर्लघु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org