________________
२६०
व्यवहार - छेदसूत्रम् - १ १/२५ संहननं पुनरादिमानां त्रयाणां संहननानां अन्यतमद्यदा तेनापृष्टं प्रतिपद्येऽहमिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः ।
(भा. ७९११
जइवि सिती ओवेओ आयपरे दुक्करं खुबेरगं । आपुच्छणेणु सजणपडिवजण गच्छ समवायं । ।
वृ- यद्यप्यसि भवसि त्वं तया परिकर्मणया उपेतो युक्तः तथाप्यात्मपरे आत्मपरविषयेषु आत्मसमुत्थेषु परसमुत्थितेपुउभयसमुत्थेषु चेत्यर्थः । परीषहेष्विति गम्यते दुष्कर वैराग्यं रागनिग्रहणमुपलक्षणमेतद्वेषनिग्रहणं चेति ततो भूय आपृच्छना क्रियते । किं त्वया कृता सम्यक् परिकर्मणा किंवा नेति एवमापृच्छनायां कृतायां यदि सम्यक् परिकृतकर्मा ज्ञातो भवति ततस्तस्य विसर्जनमनुज्ञा तस्य क्रियते । अनुज्ञातश्च गच्छ्समवायकृत्वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु प्रतिपादनं प्रतिमायाः प्रतिपत्ति करोति । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीपः पूवार्धं तावद्वयाख्यानयतिपरिकम्मितो वि बुच्चइ किमुय अपरिकम्ममंदपरिकम्मा । आयपरोभयदीसेसु, होइदुक्खंखुवेरगं ।।
[ भा. ७९२ ]
वृ- परिकर्मितोऽपि सुष्ठु कृतपरिकर्मापि उच्यते आपृच्छ्यते इति तात्पर्यार्थः यथा त्वया कृता सत्परिकर्मणा किंवा न कृतेति किमुत अकृतपरिकर्मामन्दपरिकर्मा वा ते सुतरामाप्रच्छनीया इति भावः । कस्यादेवमाप्रच्छना क्रियते इति चेत् अत आह-यत आत्मपरोभयदोषेषु आत्मपरोभयसमुत्थेषु परीषहेषु समुत्थितेषु दुःखं खु भवति वैराग्यं रागोपशमलक्षणमुपलक्षणमेतत् द्वेषोपशमी वा ततो माभूत् प्रतिपत्तौ च कश्चिद्वयाधात इत्या पृच्छना कियते । अथ केते आत्मपरोभयसमुत्थाः परीपहा इतितान् प्रतिपादयति[भा. ७९३ ] पढमबियाद लाभ रोगे पणादिगाय आयाए । सी उपहादी उपरे निसीहिवादी उ उभए वि ।।
वृ- प्रथमः परीषहः क्षुद्दितीयः पिपासा । आदि शब्दाद्रत्यरत्यादि परीपहपरिग्रहः । तथा लाभी लाभपरीधहः, रोगी रोगपरीपहः प्रज्ञादिकाः प्रज्ञादयः परीषहाः आदिशब्दादज्ञानादिपरिग्रहः । एते आत्मनि आत्मसमुत्थाः परीपहाः । तथा शीतोष्णादयः सीतोष्णदंशमशकादिपरीपहा परे परविषयाः परसमुत्था इत्यर्थः । नैषेधिक्यादयः नैषेधिकीचर्यादयः पुनः परीपहा उभयस्मिन् उभयसमुत्थाः । सम्प्रति झरणेलगच्छ्रगतिव्याख्यानार्थमुपक्रमते[ भा. ७९४]
एए समुप्पन्ने, दुक्ख वेरा भावना काउं । पुव्वं अभावितो खलुस होइ एलगच्छोउ ।।
वृ- यः खलु पूर्वमभावितो यथोक्तपरिकर्मणया अपरिकर्मितो भवति । यथा शैक्ष एडकाक्षस्तस्य एतेषु आत्मपरोभयसमुत्थेषु परीपहेषु दुःखं महत्कष्टं वैराग्यभावनारागनिग्रहभावनाउपलक्षणमेतत् । द्वेषनिग्रहभावनाश्च कर्तुं न शक्यन्ते । एवं रागद्वेषनिग्रहभावना कर्तुमितिभावः । यस्तु सम्यक्कृतपरिकर्मा भवति । स करोत्ययलेन वैराग्यभावनां यथाक्षपकस्तथा चाह
[भा. ७९५ ]
परिकम्मणाए खवगी सेह बलामोडिए वि तहटाति । पाभातिय उवसग्गे कयंमि पारइ सो सेहो ।। परिहि तंपि भंते देव य अच्छी चवेड पाडणया । काउस्सग्गा कंपन एलगस्स पएसनिच्वत्ती ।।
[ भा. ७९६ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org