________________
उद्देशक : १. मूलं : २५. [ भा. ७९६ ]
२६१
वृ- परिकर्मणायामुदाहरमं क्षपकः । बल्ला मोटिकायां श्रुतापर्याप्तत्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैक्षकः । सोऽपि शैक्षकस्तथा क्षपक इव तिष्ठति । कायोत्सर्गेणावतिष्ठते, ततो देवतया प्राभातिके उपसर्गे कृते स शैक्षकः पारयति पारयित्वा च क्षपकं ब्रुते । तथा भदन्त ! त्वमपि पाय जातं प्रभातमिति । ततो देवतया चपेटाप्रदानेन तस्याऽक्ष्णोः पातनमकारि, तदनन्तरं शैक्षकांनुकम्पया देवताराधनार्थं कार्यात्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनमभूत्ततः सद्यो मारितस्य एडकस्य स प्रदेशयोरक्ष्णोस्तत्र निवृत्ति निष्पत्तिः कृताः । एष गाथाद्वयसंक्षेपार्थः भावनार्थ:कथानकादवसेयस्तच्चेदम्- एगो खवगो एगल्लविहारपडिम्मए परिकम्मं करेइ, । सो पडिमंटितो सुत्तत्थाणि झरति । अन्नो खवगो अप्पसुतो आयरियं विन्नवेति, अहंपि परिकम्मं करेमि । आयरिएणं भणियं, तुमं सुएणं अपद्धती न पाउगोसि, वारिजमाणो असुणित्ता तस्स जमलती तहेव पडिमं ठितो देवया चिंतेति एस आणाभंगे वट्टत्तिति, । अङ्कुरते पभावं दंसति । तं दट्टु इयरो तदणुकंपणड्डा देवयाए आकंपननिमित्तं धणिउं काउस्सगेण ठितो, । ततो सा देवया आगता भणति । खमगा संदिसह किं करोमि, खमगेण भणियं, कीस ते सेहो दुक्खावितो देहि से अच्छीणि ताहे तीए देवयाए भणियं अच्छीणि अप्पदेसी भूयाणि खवगो भगति कहवि करेहि, ताहे सज्जोमारिवस्स एलगस्स सप्पएसाणि सेहखमगस्स लाइयाणि । साम्प्रतमेतस्य निदर्शनीपनयमाह
[भा. ७९७ ]
भावियमभावियाणं गुणागुणणाइयत्तिती थेरा । वितरति भावियाणं, दव्वादिसुभेयपडिवत्ती ।।
वृ- भावितानां कृतकर्मणां गुणा यथा क्षपकस्य अभावितानामकृतपरिकर्मणानामगुणा यथा शैक्षकक्षपकस्य इति । एवं भावितानां गुणागुणज्ञाः स्थविरा आचार्यास्तत आपृच्छानन्तरं यान् भावितान् सम्यगुजानन्ति तेषां भावितानां प्रतिमाप्रतिपत्तिं वितरन्ति समनुजानन्ति । एतेन आपुच्छणा विसजण इत्येतदव्याख्यातमधुना पडिवजण इत्येतद्व्याख्यानार्थमाह- दव्वादिसुभेयपडिवत्ति द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति । कथमित्याह
[भा. ७९८]
निवसग्गनिमित्तं उवसग्गं वंदिऊण आयरिए ।
आवस्सियं तु काउं निरवेक्खो वच्चए भयवं ।।
बृ- पूर्वसमस्तमपि स्वगच्छमागत्य यथार्हं क्षमयित्वा तदनन्तरमाचार्येण सकलस्वगच्छसमन्वितन सकलसङ्घसमन्वितेन वा सह निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्गं करोति । तद्यथा-निरुवसग्गवत्ति आए सद्धाए मेहाए इत्यादि कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमां प्रतिपद्य आचार्यान्वंदते, वन्दित्वा च आवश्यकी कृत्वा सभाण्डमात्रोपकरणः सिंहइवगुफातो निरपेक्षं पूर्वापेक्षावरिहितो भगवान् व्रजति । आचार्यश्च सकलसङ्घसमन्विताः पृष्टतोऽनुव्रजन्ति ते च तावद्गच्छन्ति यावद्गामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावद् दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते ।
सम्प्रति वक्ष्यमाणवक्तव्यता संसूचनाय द्वारगाथामाह
[ भा. ७९९ ]
Jain Education International
परिचियकालामंतण खामण तव संजमे य संघयणा ।
भत्तोहि निक्खेवे आवणो लाभगमने य ।।
वृ- परिचितश्रुतः सन् यावन्तं कालं परिकर्म करोति, तस्य तावत्कालो वक्तव्यः । तथा स्वगणामन्त्रणं
For Private & Personal Use Only
www.jainelibrary.org