________________
व्यवहार - छेदसूत्रम् - १ १/२१
पुष्टालम्बनत्वात् । ।
मू. (२२) परिहारकप्पठिए भिक्खुबहिया धेगणं वेयावडियाएं गच्छेजा थेराय से सरिता वा नो सरिजा वा नो कप्पइत्ति ।। से निव्विसमाणस्स०
वृ- एतदपि सूत्रं तथैव, नवरमेतावान् विशेषः । थेराय से सरिज़ा वा नो सरिज़ा नो कप्पइ से निव्विसमाणस्सेति । अस्यायमर्थ:- स्थविरा से तस्य परिहारकल्पं स्मरेयुर्यदि वा व्याक्षेपान्न स्मरेयुः । वाशब्दादुभावपि न स्मरेयातां तथापि यदि निर्विशमानको गच्छति ततः से तस्य निर्विशमानकस्य एकरत्रिक्या प्रतिमया एकरात्रिकेण वा साभिग्रहेण कचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि । तथा चाह
[ भा. ७५२ ]
२५०
सरमाणे जो उगमो अस्सरमाणेवि होइ एमेव ।
एमेव मीसगम्मि विदेसं सव्वं च आसज्जा ।।
बृ- इह त्रीणि सूत्राणि, तद्यथा- प्रथमं स्मरणसूत्रं, द्वितीयमस्मरणसूत्रं, तृतीयं मिश्रकसूत्रं स्मरणास्मरणसूत्रमित्यर्थः । तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः एमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः । अस्मरणे अस्मरणसूत्रे भवति गमः । एवमेव अनेनैव प्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपि वहनं निक्षेपणं झोषो वा देशं सर्वं वा आसाद्य प्रतीत्य द्रष्टव्यः । तत्र द्वयोरपि विस्मरणं सूचितं । तत्र कारणमाह[ भा. ७५३ ]
विज्जानिमित्त उत्तर कहणे अप्पाहणाय कहियाओ ।
अतिसंभम तुरिय विणिग्गयाण दोपहंपि विस्सरियं । ।
बृ-विद्यानां प्रति विद्या प्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणामुत्तराणां प्रतिवादिविषयाणां यथा यदिस वादी एवं ब्रूयात् ततो भवानित्थं वदेदित्येवमादिरूपाणां कथने तथा अप्पाणाय संदेशकाः बहुका कथिताः । तत आचार्यस्यातिसंभ्रमेण इतरस्यापि चातिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरपि विस्मृतं, यथा परिहारतपो निक्षेपणीयमिति । तत्र यदि आचार्याः स्मरेयुः स वा स्मारयति तदा निक्षिप्य गच्छति । अथ द्वयोरपि विस्मृतं परिहारतपो निक्षेपणीयमिति । अथद्वयोरपि विस्मृतंतदा निर्विशमानक एव याति । यदा तु पूर्वं स स्मृतवान् न पश्चात्तदा का वार्त्तेत्यत आह
[ भा. ७५४ ]
पुव्वं सो सरिऊण संपत्थिए विजमादि कजेहिं ।
जस्स पुनो विस्सरियं निव्विसमाणे तर्हिपि वए । ।
बृ- पूर्व स परिहारिक: स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विचित्य संप्रस्थिते सम्प्रस्थानकाले विद्यादिकार्यैर्विद्याग्रहणादिकार्यैर्व्याकुलीभूततया यस्य पूनर्विस्मृतं यो विस्मृतं गतवान् तत्रापि पूर्वं स्मरणे पश्चाद स्मरणे निर्विशमानो व्रजेत् । सम्प्रति यदुक्तं देशं वा सर्व वा आसाद्येति तद्वयाख्यानयति
[ भा. ७५५ ]
देसं वा विवहेखादेच ठवेज अहव झोसिज्जा ।
सव्वं वा विवहेज्जा सव्वं ठविज सव्वं व झोसिज्जा ।।
वृ-त्रिष्वपि सूत्रेषु परस्परसमुच्चयार्थाः । तथा त्रिष्वपि सूत्रेषु देशंवा वाहयेदपि, देशंवा स्थापयेदपि, अथवा देशंझोषयेदपि, सर्व वाहयेदपि सर्वं वा स्थापयेदपि सर्वं वा झोषयेदपि । अत्र वाशब्दाद्देशं वेत्याद्यपेक्षया विकल्पार्थाः । अपि शब्दाः पूर्ववत् । अथ कथं देशस्य वहनादि ? उच्यते परिहारतपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org