________________
उद्देशकः १, मूलं : २०, [भा. ७४८]
२४९ द्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहार्योषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताहाराऽभ्यवहारतो मेधाविशिष्टं च धारणावलं, सर्पिः सन्मिश्रभोजन भुक्तित उा घृतेन पाटवमिति वचनात् देशतः सर्वतो वा स्नानेन वस्त्रादिभूषायां च तेजस्विता प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः । एतत्सर्वं वादवेलायामुपयोगि । तथा चाह[भा.७४९] वायापुगललया मेहाउज्जाय धारणाबलंच ।
तेजस्सिया सत्तं, वायाय इयंमिसंगामे ।। वृ- वाग् व्यक्ताक्षरा, पुद्गललधुता शरीरपुद्गलानां जाड्यापगमः, मेघा अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः । ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेष इत्यर्थः,। धारणाबलं प्रतिवादिनःशब्दतदर्थावधारणं बलं, तेजस्विताप्रतिवादिक्षोभापादिकाशरीरस्य स्फूर्तिमती दीप्यमानता, सत्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यचलितस्तन्मानोपमर्दहेतुरवष्टम्भः । एतत्सर्वं वाड्मये संग्रामे उपयुज्यते ।
मू. (२१) परिहारकम्पठिते भिक्खूबहिया थेराणं वेयावडियागच्छेज्जा । थेराय से नो सरेजा कप्पड़ से निव्विसमाणस्स एगराइयाएपडिमाए"०
दृ-अत्रनो सरेज्जा इतिविशेषः,शेषसमस्तमपिपूर्ववत् । नोसरेज्जा इत्यस्यायमर्थः-एषपरिहारतपो यहन्तष्ठितीतिस्थविराआचार्यानस्मरयुः । कस्मान्नस्मरेयुरितिचेत्? उच्यते-व्याक्षेपात् । तथा चाहनसरइ इत्यादि पूर्वगाथाश्चा) विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यो न स्मरति । ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् । गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाह[भा.७५०) तत्थगतोविय संतोपुरिसंथामंच नाउतो ठवणं ।
साहीणमसाहीणे गुरुम्मिठवणाअसहणेउ ।। वृ- गतोऽपि च सन्पुरुषं प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभाव्यादितदान निक्षिपति, अथाशक्तिःसंभाव्यतेततःस्थापनानिक्षेपणंपरिहारतपसः कर्तव्यम् । किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथञ्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरंदातुमशक्तोमतिमोहोवातदानीमम क्षामस्वाभवेत्इतियदिसंभावयति, तर्हि निक्षिपति, । अथकथंसनिक्षिपतीत्यतआह-साहीणेत्यादिस्वाधीने सन्निटुंते, अस्वाधिने असन्निहित गुरावसहस्य स्थापना परिहारतपसो निक्षेपणं भवति । इयमत्र भावना-यद्याचार्यः सन्निहितो भवति ततः स एव तं निक्षेपयति । अथ नास्ति सन्निहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयं निक्षिपति । अत्र पर आह-“ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितंप्राप्नोति, अथानुद्घातितंततः परतरं स्थानमाप्नोति" इति । सूरिराह[भा.७५१] काम अप्पच्छंदो निक्खियमाणोउदोसवंहोइ ।
तंपुन जुजइ असढे तीरियकज्जे पुन यहेजा ।।। वृ-कामशब्दो मकरध्वजे अवधृतौ च । इहावधृते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन्दोषवान्भवतिपरंनिष्कारणे, यदिपुनरशठः सन्एवं चिन्तयतिनशक्तःक्षामतया परवादिनं जेतुमिदानींतीरितः कार्यः समाप्तकार्यः 1पुनर्भूयोवहेयमितिततस्तस्मिन् निक्षेपणंयुज्यतेएव अदुष्टमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org