________________
२४८
व्यवहार - छेदसूत्रम् - ११/२०
[ भा. ७४४ |
सुणिऊणनिज्झामगविरहियस्स पोयस्स जह भवे नासो ।
गीयत्थविरहियस्स उ तहेव नासी परिणिस्स ।।
वृ- सुनिपुणः सम्यग् जलमार्गकुशलः तेन निर्यामकेन विरहितस्य पोतस्य यथा भवति विनाशस्तथैव गीतार्थविरहितस्य परिज्ञिनः कृतभक्तप्रत्याख्यानस्य भवति विनाशः प्रत्याख्यानफलस्य सुगतिलाभस्याभावात् ! [भा. ७४५]
निउणमतिनिखामगपोतो जह इच्छियं वए भूमिं । गीयत्थेनुवेतो तब परिनी लहड सिद्धिं ।।
बृ- यथा पोतः प्रवहणं निपुनमतिनिर्यामकः कर्णधारो यस्य स तता ईप्सितां भूमिं व्रजति । एवं गीतार्थेनोपेतो युक्तः सन् परिज्ञी लभते सिद्धिं मोक्षमिति उक्ता पोतदृष्टान्तभावना । अथ किं तस्य विशेषतरं करणीयमित्यत आह[ भा. ७४६ ]
उव्वत्तणाय पानग धीरवणा चेव धम्मकहणाय । अंती बहिनीहरणं तम्मिय काले नमोक्कारो ।।
वृ- तस्य कृतभक्तप्रत्मयाख्यानस्य स्वयमुद्वर्तनं कर्तुमशक्नुवत उद्धर्तना कर्तव्या । तस्यां च क्रियमाणायां महान आश्वासो भवति समाधिं च परमां लभते, ततः साधयति परममुत्तमार्थं, तथा तृषापीडितस्य सतः पानकंपानं समर्पणीयं । धीखणाचेवत्ति दुःखेन परिताप्यमानस्य धीरापना कर्तव्या । यथा धीरोभव धीरो भव अहं तवैतत् दुःखं विश्रामणादिना अपनेष्यामि अपिच पुण्यभागिन् ! सहस्वैवत् दुःखं सम्यगत एव तत्सहनानन्तरमचिरात्सर्वदुःखप्रहीणो भविष्यसि इत्यादि । तथा धर्मकथानापूर्वपूर्वपरमदुःखकारिमुनिचरितरूपा कथयितव्या । तथा मध्ये धर्ममसहमानस्य बहिर्निर्हरणं बहिर्नयनं बहिर्वातादिकमसहमानस्य अन्तर्निर्हरणं तथा तस्मिन् काले मरणसमये नमस्कारो दातव्यः ।
गतं परिज्ञाद्वारं ग्लानद्वारं च । सम्प्रति संयमातीतद्वारं वादिद्वार चाहजोव्विय भंसिजते गमतीसोचैव भंसियाणंपि ।
[भा. ७४७]
हेठा अकरियवादी भणितो इणमो किरियवादी ।।
वृ य एव चारित्राद्भ्रश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उक्तः स एव भ्रंशितानामुत्प्रव्रजितानामपि ध्रियमाणानां वेदितव्यः न पुनः किञ्चिदपि नानात्वं । गतं संयमातीतद्वारमधुना वादिद्वारमाहअकिरियवादी इत्यादि य एव प्राक्परवादिनि गम उक्तः स एवात्रापि द्रष्टव्यः । केवलं सोऽक्रियावादी भणितो । अयं तु क्रियावादीति विशेषः । यत्र स्थाने वादी दातव्यः तत्र गतस्य यत्कर्तव्यं तथा चाहवादे जेन समाही विज्ञागहणं च वादिपडिवक्खो ।
[भा. ७४८ ]
सूत्तं न सरइ विक्खेवेणं निव्विसमाणो तहिं गच्छे ||
वृ- वादे वादविषये येन तस्य समाधिरुपजायते तत्सर्वं क्रियते, तद्यथा-यदिभणति वाक्पाटवकारि ब्राहृम्याद्यीपधं दीयतामिति तद्दीयते शरीरजाड्यापहारि तदुपदिष्टं वैद्योपदिष्टं वा किञ्चिद्वस्तु यदि वा दुग्धादिविकृति प्रणीतभक्तं अथवा देशस्नानं सर्वस्नानं वस्त्रादिविभूषा वा विद्याग्रहणं च । 'वादिपडिवक्खो 'ति विद्याग्रहणं वा वादिप्रतिपक्षः वादिविद्या प्रतिपक्षभूतं कार्यते । किमुक्तं भवति ? याः प्रतिवादी विद्या जानाति तासां प्रतिपन्थिन्यो या अन्या विद्या यथा- 'मोरीनउलिविराली' इत्यादि तासां ग्रहणं कार्यते । कस्मादेतत्सर्वं क्रियते इति चेदुच्यते गुणदर्शनात्तथाहि ब्राह्मया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org