________________
२४७
उद्देशकः १, मूलं: २०, [भा. ७३८]
गतंदुर्लभभक्तद्वारं भक्तपरिज्ञाद्वारं ग्लानद्वारंचयुगपदाह[भा.७३९) परिणाय गिलाणस्सय दोण्हवि कयरस्स होति कायव्वं ।
असतीए गिलाणस्सय दोण्ह विसंतेपरिणाए ।। वृ- परिज्ञातंति पदैकदेशे पदसमुदायोपचारात् भक्तपरिज्ञाशब्दः प्रत्याख्यानवाचीत्वात्तस्य च परनिपातः प्राकृतत्वात्सुखादिदर्शनाद्वाप्रत्याख्यातभक्तस्यस्लानस्य चसंभवेद्वयोर्मध्येकतरस्य भवति कर्तव्यम् ? । उच्यते-शक्तौ सत्यां द्वयोरपि कर्तव्यम् । अथ न शक्तो द्वयोरपि कर्तुं ततो ग्लानस्य कर्तव्यम्, तस्य जीवितसापेक्षत्वात् । शक्ती सत्यांद्वयोरपि वैयावृत्ये क्रियमाणे सति परिज्ञाते भक्ते प्रत्याख्यातभक्तस्येत्यर्थः । विशेषतरं कर्तव्यमिति वाक्यशेषः अथ शक्तावसत्यां ग्लानस्य कर्तव्यमित्युक्तम् किं कारणमत आहभा.७४०] सावेक्खो उगिलाणो निरवेक्खो जीवियंमि उपरिणी ।
इइदोण्हविकायव्वे उक्कमकरणेकरेअसहू ।। वृ- प्लानो जीविते जीवने सापेक्षः, परिज्ञी भक्तपरिज्ञानवान् जीविते निरपेक्षस्ततोऽवश्यं ग्लानो जीवयितव्य इति, द्वयोरपि कर्तव्येऽसहोऽसत्यां उत् क्रमेण भक्तपरिज्ञावन्तमुलंध्य म्लानस्य करणं करणीयं वैयावृत्यं कुर्यात् । यदुक्तं शक्तौ सत्यां द्वयोरपि कर्तव्ये प्रत्याख्यातभक्तस्य विशेषतः कर्तव्यमिति । तत्रकारणमाह[भा.७४१] वसहे जोहेयतहा निजामगविरहिए जहापोए ।
पावति विमासमेवं भत्तपरिणाएसंमूढो ।। दृ-यथावृषभोबलीवर्दसुसारथिरहितः,यथावायोधाःसुस्वामिविरहितास्तथा निर्यामकविरहितः पोतः प्राप्नोति विनाशमेवं भक्तपरिज्ञायां सम्यक् निर्यामकाभावतः संमूढः सन् समाधिलक्षणप्राणविनाशमाप्नोति । तत्रप्रथमंवृषभदृष्टान्तंभावयतिभा.७४२] नामेण विगोएण विपलायंतो विसावितोसंतो।
अविभीरू विनियत्तइवसहो अप्फालिओ पहुणा ।। वृ-यथा दृषभः प्रथमं सारथिरहितः सन् प्रतिवृषभेण युद्धे पराजितो विपलायते न युद्धाभिमुखी भवति । विपलायमानश्चकथमपिप्रभुणासारथिनादृष्टः सन्नाम्नागोत्रेणचशापितःशब्दितआकारित इत्यर्थः । तथा प्रसादपुरस्सरमास्फालितश्च स्कन्धादिप्रदेशेषु हस्तेन तत एवं प्रोत्साहितसत्वः सन्, अपिसंभावने । भीरुरपि विपलायमानोऽपि पुनरपि प्रति वृषभेण सह युद्धदानाय प्रतिनिवर्तते । एवं कृत प्रत्याख्यानोऽपि सम्यग् निर्यामकाभावतो जातमन्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन् प्रतिनिवर्तते ।सपरीषहचमूमभिभवितुमितिभावितोवृषभदृष्टान्तः । सम्प्रतियोधदृष्टान्तभावनामाह[भा.७४३] अप्फालिया जहरणेजोहाभंजंति परबलाणीयं ।
गीयजुतोउ परिणी तह जिणइ परीसहानीयं ।। वृ-प्रभुणा नाम्ना गोत्रेण गुणप्रशंसने च आस्फालिता आ समन्तात् स्फार प्रापिता यथा योधाः सुभटा रणे संग्रामे परबलानीकं परेषां वैरिणां बलं तच्च तत् अनीकं च परबलानीकं भञ्जन्ति । तथा परिजी भक्तपरिज्ञावान् गीतयुतसम्यग् निर्यामकोपेतो जयति अभिभवति परिषहानीकमिति । उक्ता योधदृष्टान्तभावना | सम्प्रति पोतदृष्टान्तभावनाप्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org