________________
उद्देशक : १, मूलं : १९, [भा. ६७३]
[भा. ६७३१
२३१
जा साउ अभिनिसीहिय सा नियमा होइ उ असंबद्धा |
संबद्धमसंबद्धा अभिसेज्जा होति नायव्वा ।।
वृ- अत्र येत्येव गतिः सेति यदुक्तं तद्दोषाभावोपक्रमप्रदर्शनार्थमित्यदुष्टं या सा अभिनैषेधिकी । सा नियमाद्भवत्यसम्बद्धा कारणमनन्तरमेवोक्तं या त्वभिशय्या सा सम्बद्धा असम्बद्धा च भवति ज्ञातव्या। अथ कस्यां वेलायां तत्र गन्तव्यं तत्र आह
[भा. ६७४९
धरमाणच्चिय सूरे संथारुच्चारकालभूमीतो । पडिलेहियणुन्नव्विए वसहेहिं वयंतिमं वेलं ||
वृ-योऽसावमिशय्यायाः शय्यातरस्तंवृषभा अनुज्ञापयन्ति, यथा स्वाध्यायनिमित्तंवयमत्रवत्स्याम इति । तत एवं वृषभैरनुज्ञापिते शय्यातरे धरमाण एव अनस्तमिते एव सूर्ये तस्याभिशय्यायां संस्तारकोच्चारकालभूमी: प्रत्युपेक्ष्य भूवो वसतावागत्य इमां वेलामितिकालाध्वनोर्व्याप्ताविति सप्तम्यर्थे द्वितीया । अस्यामनन्तरं वक्ष्यमाणायां वेलायां व्रजन्ति । कस्यां वेलायामित्यत आहआवस्सयं तु काउं निव्वाघाए होति गंतव्वं । वाघाएण उभयणादेसं सव्वं अकाऊणं ।।
[ भा. ६७५ ]
वृ- व्याघातस्य स्तेनादिप्रतिबन्धस्याभावो निर्व्याघातं तेन निर्व्याघातेन भवति गन्तव्यं । वसतेराचार्यैः सममावश्यकं कृत्वा व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना का भजनेत्यत आह-देशं वा आवश्यकस्याकृत्वा सर्वं वावश्यकमकृत्वा । सम्प्रतियैः कारणैः प्रतिबन्धस्तान्युपदर्शयति[ भा. ६७६ ] तेना साक्य वाला गुम्मिय आरक्खि ठवण पडिनीए । इत्थि नपुंसगसंसत्त वासचिक्खल्ल कंटेय ।।
बृ- स्तेनाश्चौरास्ते सन्ध्यासमयेऽन्धकारकलुषिते संचरन्ति । स्वापदानि वा दुष्टानि भूयांसि तदा च हप्तानि हिडन्ते । व्याला वा भुजङ्गमादयो वातादिपानाय भूयांसः संचरन्ति । तथा गुल्मेन समुदायेन संचरन्तीति गौल्मिका आरक्षकाणामप्युपरि स्थायिनो हिण्डिकाः आरक्षकाः पुररक्षकास्ते अकाले हिण्डमानान् गृह्णन्ति । तथाठवणत्ति, क्वचिद्देशे एवंरूपा स्थापना क्रियते यथा-'अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयम्' इति प्रत्यनीको वा कोऽप्यन्तरायातं विघातकरणार्थं तिष्ठन् वर्तते, स्त्रियो नपुंसका वा कामविह्वलास्तदा उपसर्गयेयुः । संसक्तो वा प्राणिजातिभिरपान्तराले मार्गः । ततोऽन्धकारेणैयापथिकी न शुद्धयति वर्षं वा पतत् संभाव्यते, वा चिक्खल्लोत्ति कर्दमो वा पथि भूयानस्ति । ततो रात्रौ पादलग्नः कर्दमः कथं क्रियते कंटत्ति कण्टका वा मार्गेऽतिवहवस्ते रात्रौ परिहर्तुं न शक्यंते । एतैर्व्याघातकारणैः समुपस्थितैर्देशतः सर्वतो वावश्यकमकृत्वा गच्छन्ति । तत्र देशतः कथमकृत्वेत्यत आहथुइमंगलकित्तिकम्मे उस्सग्गे य तिविहकितिकम्मे ।
[भा. ६७७ ॥
तत्तोय पडिक्कमणे आलोयणए कितिकंमे ।।
वृ- स्तुतिमङ्गलमकृत्वा स्तुतिमङ्गलाकरणे चायं विधिः । आवश्यके समाप्ते द्विस्तुतीउच्चार्य तृतीयां स्तुतिमकृत्वा आभिशय्यां गच्छन्ति । तत्रच गत्वा एर्यापथिकी प्रतिक्रम्य तृतीयां स्तुतिं ददाति । अथवा आवश्यके समाप्ते एकां स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्वा पूर्वविधिनोच्चरन्ति । अथवा समाप्ते आवश्यके अभिशय्यां गत्वा तत्रतिस्रस्तुतीर्ददति । अथवा स्तुतिभ्यो यदर्वाक्तन, तत् कृतिकर्म तस्मिन्नकृतेऽभिशय्यां गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुखवस्त्रिकां च प्रत्युपेक्ष्य कृतिकर्म कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org