________________
२३०
व्यवहार - छेदसूत्रम्-१- १/१९ काविकी संज्ञा ।उपलक्षणमेतत् ।प्रश्रवणभूमीनांच प्रेक्षार्थमभिशय्यांगत इति एवमनापृच्छायामपवाद उक्तः ।सम्प्रति प्रतिषिद्धेऽपवादमाह|भा.६७०) एमेव व पडिसिद्धे सन्नादिगयस्सकंचिपडिपुच्छे ।
तंपिय होढा असमिक्खिऊणपडिसेहितो जम्हा ।। वृ-कस्यापिसाधो रमिशय्यादिगमने गुरुणा प्रतिषिद्धे संज्ञादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेव अनन्तरोक्तेन प्रकारेण गुरून् प्रति सन्देशकथनं ज्ञातव्यम् । कथमित्याह-कं चि पडिपुच्छेति, कमपि वृषभं प्रतिपृच्छेत् यथा- 'न मे किमपि गमनप्रतिषेधकारणमभूत्, केवलमेवमेव गुरुणा प्रतिषिद्धोऽथ च मया स्वाध्यायः कर्तव्यो वसतौ चा स्वाध्यायादिकमुपजातमतः किं करोमि यामि वसति,प्रतिपृच्छामिगुरुम्' इति । एवमुक्ते तेवृषभादयोऽभिशय्यांगन्तुकामाःकालस्य स्तोकत्वात यावत् वसतौ गत्वा गुरुन् प्रतिपृच्छय समागच्छन्ति तावत् रात्रिः पततीति तं प्रत्येवमुदीरयंति ।तं पि येत्यादि तदपि गुरूणां प्रतिपृच्छनं । ‘होढा' इति देशीपदमेतत् दत्तमेव कृतमेवेत्यर्थः । यस्मादसीक्ष्यापर्यालोच्यानाभोगतएवमेवेत्यर्थः । त्वं प्रतिपेधितस्ततो यदत्र किमपि गुरवो वक्ष्यन्ते, तत्र वयं प्रत्यापिष्यामो यथैव न किमपिगमनप्रतिषेधकारणंकृतवान् प्रतिपृच्छार्थंवा गच्छन् अस्माभिर्वारितस्तावत कालस्याप्राप्यमाणत्वात् । एवमुक्त्वा बलादपितं वृषभा नयन्ति । सोऽपिच बलान्नीयमानश्चिन्तयति यथा 'नास्तिममकश्चिद्दोषः किंनगच्छामीतिसचतत्रगच्छन्वृषभाश्चयेऽन्ये साधवो वसतिमुपयन्ति तेषांसन्देशंप्रयच्छन्ति । अथासमीक्ष्यसप्रतिषिद्ध इतिवृषभाः कथं जानन्तीत्यत आह[भा.६७१} जाणंतिवतंवसभा अहवा वसभाणतेन सब्भावो ।
कहितो नमेत्थि दोसो तोणं वसभाबला नेति ।। वृ-जानन्ति स्वयमेव तंवृषभा यथा निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समक्षमेवास्य प्रायोऽवस्थानात् । अथवा तेन वृषभाणां सद्भावः कथितो यथा न मे कश्चन दोष इति । तत् एतत ज्ञात्या गुरुमनापृच्छयैवयथोक्तप्रकारेणवृषभाबलान्नयन्ति ।योऽपिआचार्यस्वप्रतिचारीपूर्वप्रतिषिद्धः सोऽपि तत्कर्तव्यं । यदि वृषभैः सम्पादितं भवति, ततो गच्छत्यभिशय्यामिति न कश्चिद्दोषः । सम्प्रत्यमिशय्यायानषेधिक्याश्चभेदानाह[भा.६७२] अभिसेज अभिनिसीहिय एकेका दुविह होइनायव्वा ।
एगवडाए अंतो, बहिया सम्बद्धऽसम्बद्धा ।। वृ-या गन्तव्या अभिशय्या अभिनषेधिकी वासा एकैका द्विविधा भवति । तद्यथा-साधु वसतेः एगवडाए इतिएकवृत्तिपरक्षेपायांअन्तर्बहिश्च । इयमनभावना-द्विविधाभिशय्या-एकवसतैरेकवृत्तिपरिक्षेपायाअन्तरपरावहिरवंनषेधिक्यपिद्विविधाभावनीया ।भूय एकैकाभिशय्या द्विविधा ।तद्यथासम्बद्धा असम्बद्धाच । तत्रतस्था अभिशय्यावा वसतेश्च एक एव पृष्टवंशः सा सम्बद्धा । यस्याः पुनः पृथक् पृष्टवंशः सा असम्बद्धाः । अथैकवृत्तिपरिक्षेपस्यान्तराभिशय्या द्विविधा अपि यथोक्तप्रकारा घटते । यात्वेकवृत्तिपरिक्षेपस्य बहिःसा नूनमसम्बद्धास्यात्, तस्याः सुप्रतीतत्वात् । या पुनः सम्बद्धा सा पुनः कथमुपपद्यते ? उच्यते-यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूता या वसतेश्च तल्लग्नाया एकः पृष्टवंशोऽपान्तराले वसतिः सा बहिर्भूतापि सम्बद्धा इति; । नैपेधिकी पुनरन्तर्बहिर्वा नियमात्सम्बद्धैव हस्तशतस्याभ्यन्तरतोऽस्वाध्यायिकेसमुत्पन्नेस्वाध्यायासंभवात् । तथा चाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org