________________
२२८
व्यवहार - छेदसूत्रम् - १-१/१९
नृपस्य पुरतः कथनं । ततो राजा तस्य कन्यान्तः पुरपालकस्य दण्डनं, अन्यस्य कन्यान्तः पुरपालकस्य स्थापनं चाकार्षीत् । [ था. ६६१ ]
निज्जूहगयं दट्ठे बितिओ अन्नी उ वा हरिताणं । विनयं करेइ तीसे सेसभयं पूयणा रम्ना ।।
वृ- अन्योद्वितीयः कन्यान्तःपुरपालको निर्यूहगतां गवाक्ष तामेकां कन्यां दृष्ट्रा बाहरिताणंतिव्याहत्य आकार्य विनयं शिक्षां तस्याः करोति । ततः शेषाणां कन्यानामुदपादिभयं तेनैकाप्यग्रद्वारादिषु नाव - तिष्टते । न च धूर्तेरपहरणं । ततः सम्यक् कन्यान्तः पुरपालनं कृतवानिति राज्ञा पूजा कृता । एष दृष्टान्तोऽयमर्थोपनयः । [भा. ६६२ ]
राया इव तित्थयरा महत्तरगुरू उ साहु कन्नातो । आलोयण अवराहा अपसत्थपसत्थगी वणतो ।।
1
वृ- राजा इव राजस्थानीया तीर्थकरा महत्तरः कन्यान्तःपुरपालकस्तत्स्थानीया गुरवः साधवः कन्यास्थानीयाः, अवलोकनस्थानीया अपराधाः । अत्राप्रशस्तेन कन्यान्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः । तद्यथा-य आचार्यः प्रमादिनः शिष्यान् न वारयति, न च प्रायश्चित्तं ददाति स विनश्यति । यथा प्रथमः कन्यान्तःपुरपालकः; वस्तुप्रमाद्यतः शिष्यान् वारयति प्रायश्चित्तं च यथापराधं प्रयच्छति । स इह लोके प्रशंसादिपूजां प्राप्नोति, परलोके च सम्यक् शिष्य निस्तरणतो निर्वाणमचरिदाप्नुयादिति । सम्प्रति यदुक्तं प्राचूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशय्यां गन्तव्येति तद्विषयमपवादं क्रमेणाभिदित्सुराह
[ भा. ६६३ ]
असज्झाइए असंते ठाणासति पाहुणागमे चैव ।
अन्नत्थन गंतव्वं गमने गुरुगा उपुच्युक्ता ।।
वृ- अस्वाध्यायिके असति अविद्यमाने प्राघूर्णकानामागमे ठाणासत्ति स्थानस्य संस्तारकयोग्यभूमिलक्षणस्य असति अपि शब्दोऽत्र सामर्थ्यादवगम्यते । असत्यपि भावप्रधानोऽयं निर्देश इत्यभावेऽपि अन्यत्राभिशय्यादौ न गन्तव्यं । किन्तु यतना कर्तव्या । यदि पुनर्यतनाकरणप्रमादितया अन्यत्र गमनं कुर्वन्ति । ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरुमासाः प्रायश्चित्तं ।। का पुनर्यतनेति यतनामाह[भा. ६६४ ]
वत्थव्वा वारंवार एण जग्गं तु माय वच्चं तु । एमेव य पाहुणए जग्गणगाढं अनुव्वाए ।।
वृ- वास्तव्या वारंवार केन वारेण जाग्रतुइयमत्र भावना - वास्तव्यानां मध्ये यो यावन्मात्रमर्धयामादि जागरितुं शक्नोति स तावन्मात्रं जागर्ति । तदनन्तरं जागरितुमशक्नुवत् अन्यं साधुमुत्थापयति । सोऽपि स्वजागरणवेलातिक्रमेऽन्यमेवं वारेण वारेण जाग्रतु । यदि पुनर्वास्तव्याः समस्तामपि रात्रिं वारेण वारेण जागरितुं न शक्नुवन्ति । ततो यदि गाढं न परिश्रान्ता प्राघूर्णकास्ततः प्राचूर्णके गाढमनुव्वाए इति अपरिश्रान्ते एवमेव वारेण वारेण जागरणं समर्पणीयं मा पुनश्चशब्दः पुनः शब्दार्थे व्रजन्त्वभिशय्यां, यदि पुनर्वास्तव्याः प्राघूर्णकाश्च न वारेण वारेण जागरितुं शक्नुवन्ति तदा शय्या गन्तव्येति ।
[भा. ६६५ ]
Jain Education International
एमेव संसत्ते देसे अगलंतए य संसव्वत्थ । अम्हवहा पाहुणगा उवेति रित्ताउकक्करणा ।।
For Private & Personal Use Only
www.jainelibrary.org