________________
उद्देशक : १, मूलं : १९, [भा. ६४८]
[ भा. ६४८ ]
२२५
न करेंती आवस्सं हीनाहियनिविट्ठपाउयनिसन्ना । दंडगहणादिविणयं राइणियादीण न करेंति ।।
वृ- आवश्यकं मूलत एव न कुर्वन्ति, यदि वा हीनं अधिकं वा कायोत्सर्गाणां हीनहीनकरणतोऽधिकं वाऽनुप्रेक्षार्थं कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति । यदि वा निषणा उपविष्टाः प्रावृताः शीतादिभयतः कल्पादिप्रावरणप्रावृता निषन्नास्त्वग्वर्तनेन निपतिताः प्रकुर्वन्ति । गतमावश्यकद्वारम्। दण्डगणादित्ति दण्डग्रहादौ दण्डग्रहणं भाण्डमात्रकादीनामुपलक्षणं दण्डकादीनां ग्रहादौ ग्रहणे निक्षेपे च न प्रत्युपेक्षणं, नापि प्रमार्जनं दुः प्रत्युपेक्षितादि वा कुर्वन्ति । गतं दण्डद्वारम् । विनयद्वारमाह-विनयं रत्नाधिकादीनामाचार्यादीनां यथा रत्नाधिकं न कुर्वन्ति गतं विनयद्वारम् । राजादिद्वारकदम्बकमाहरावं इत्थं तह अस्समादि वंतरहेय पेहेति । तह नक्खवीणियादी कंदप्पादी व कुव्वंति ।।
भा. ६४९]
बृ- राजानं निर्गच्छन्तं वा स्त्रियं सुरूपामिति विशिष्टाभरणालङ्कृतामागच्छन्तीं वा तथा तिरिक्ख इत्यस्य व्याख्यानम् अश्वादिकम् अश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्ण, व्यंतर रथान्वा विभूत्याविपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षते । एतेन राजस्त्रीतिर्यग्वानमन्तरद्वाराणि व्याख्यातानि । तथेत्यनुक्तसमुच्चयार्थः । स चेदमुक्तं समुच्चिनोति कालप्रत्युपेक्षणं न कुर्वन्ति न वा कालं प्रतिजागरति । गतंप्रेक्षाद्वारं । तथा नखवीणिकादिकंनखैर्वीणावादनं आदिशब्दातूनखानां परस्परं घर्षणमित्यादिपरिग्रहः । तथा कन्दर्पादिकं, कन्दर्पकौकुच्यकौतुकादि कुर्वन्ति ।।
[ भा. ६५० ]
एएस वट्टमाणे अडिय पडिसेहिए इमा मेरा । हियए करेइ दोसे गुरुएकहणं स देइ ते सोहिं ।।
वृ- एतेष्वनन्तरोदितेषु दोषेषु वर्तमानान् वारयतीति क्रियाध्याहारः कृतेऽपि वारणे यदि तेन तिष्ठन्ति प्रतिषेधन्ति, यदि वयमेवं कुर्मस्तत किं तव को वा त्वमित्यादि । ततोऽस्थिते प्रतिषेधिते वा नायके इयमनन्तरमुच्यमाना मेरत्ति मर्यादा समाचारी तामेवाह; हृदये तान् दोषान् करोति, कृत्वा च गुरवे कथयति स च गुरुर्ददाति तेषां शोधिं प्रायश्चित्तमिति । संप्रतिवक्ष्यमाणार्थसंग्रहाय द्वारंगाथामाह| भा. ६५११ अति बहुयं पच्छित्तं, अदिने वाहेय रायकन्नाय । ठाणासति पाहुणए नउगमनं मासोक्ककरणे ||
बृ- चोदकवचनं अतिबहुकं प्रायश्चित्तंगुरुमासादिन दातव्यं, तद्दाने व्रतपरिणामस्यापि हानिप्रसक्तेः, 1 अत्र गुरुवचनं "जो जत्तिएण सुज्झइ" इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदाने प्रायश्चित्तं शल्यं नोद्धरति, तस्मिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः । यः पुनराचार्यः शिष्यस्य प्रायश्चित्तस्थानापत्तिं जानन्नपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो राजकन्यापदैकदेशे राजकन्यान्तःपुरपालकः । तथा ठाणा सति इत्यादि सङ्कटायां वसतौ प्राघूर्णके समागते सति स्थानस्य योग्यभूमिप्रदेशस्य असति भावप्रधानोऽयं निर्देशो अविद्यमानत्वे उत्सर्गतो न तु नैव गमनं, किन्तुयतना वक्ष्यमाणा कार्या, तस्यां च वतनायां कर्तुमशक्यमाणायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते यथाऽस्मद्वधाय प्राघूर्णकाः समागता यत् गन्तव्यमस्मिभिराभिशय्यादिषु कर्त्तव्यं वा रात्रौ जागरणमिति । तदा तेषां कर्करणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव 2115
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org