________________
२२४
व्यवहार - छेदसूत्रम्-१-१/१९ किंस्वरूपः सोऽगीतार्थो नायकस्थापनीय इत्यत आह[भा.६४४] मज्झत्थोऽकंदप्पी जो दोसे लिहइ लेहओचेव ।
के सुयतेसीएज्जा दोसेसुतेइमे सुणसु ।। वृ- मध्यस्थो रागद्वेषरहितः अकन्दी कंदर्पोद्दीनपनभाषितादिविकलः । एवंभूतो नायकः स्थापनीयः, ।तेनचसाधवोऽसमाचारी समाचरन्तः शिक्षणीयाः ।शिष्यमाणाश्चयदिकथमपिब्रुवते। यथा यदि वयमेवं कुर्मस्ततस्तव किं कस्त्वमित्यादि तदा स लेहओ चेवत्ति लेखक इव सयुक्त लेखक वत्तेषां सर्वेषांसाधूनां दोषान् अविस्मरणनिमित्तंमनसि लिखतिसम्यग् अवधारयतीत्यर्थः । अथ केषु दोषेषुतेसाधवः सीदेयुर्यान्सस्वचेतसिधारयति सूरिराह-तान् दोषानिमान्वक्ष्यमाणान् श्रृणुत । तत्र यदुक्तं ‘एएसिंअसतीए' इत्यादितद्वयाख्यानार्थमाह[भा.६४५] थेरपवत्तीगीयासतीए मेरंकहंत अगीयत्थे ।
भयगोरवंचजस्स उकरेंतिसयमुज्जतोजो य ।। वृ स्थविरस्यप्रवर्तिन उपलक्षणमेतत् | गणावच्छेदस्यच तथागीतस्य गीतार्थस्य भिक्षोरसतिअभावे अगीतार्थोऽपिप्रेषणीयः । तस्मिंश्चागीतार्थे प्रेक्ष्यमाणे मेरत्ति मर्यादा सामाचारी यथोक्तस्वरूपांकथयन्ति। किंविशिष्टः सोऽगीतार्थः प्रेष्य आह-भयगौरवमित्यादि यस्य भयं साधवः कुर्वन्ति यस्य चानुवर्तनागुणतोभयतो गौवं यथोचितं कुर्वन्ति । यश्चस्वयमात्मना समुधुक्तोऽप्रमादी सोऽगीतार्थों नायकः प्रवर्तनीयः । किं कारणभिति चेत् ? उच्यते-असमाचारीरूपदोषप्रतिषेधनार्थं । अथ के ते असमाचारीरूपा दोषाः अत आह[भा.६४६) पडिलेहणऽसज्झाएआवस्सगदण्डविनयरा इत्थी।
तेरीच्छ वाणमंतरपेहा नहवीणिकंदप्पे ।। वृ-प्रतिलेखनायामस्वाध्याये आवश्यके दण्डे, उपलक्षणमेतत्, दण्डकादौ विषये । तथा विनये वंदनकादौ तथा राज्ञि स्त्रियां तिर्यक्षु हस्त्यादिषु वानमन्तरे वानमन्तरप्रतिमायां विपणिषु रथेन गच्छत्यां प्रेक्षायांकालग्रहणादौनवीणत्तिनखवीणिकायांकन्दर्पवासमाचारीरूपादोषाः ।एतद्वारगाथासंक्षेपार्थः एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तद्वयाख्यानमुपक्रान्तमिति द्रष्टव्यं । तत्र प्रतिलेखनद्वारमस्वाध्यायद्वारंच विवरीषुराहभा.६४७] पडिलेहण सज्झाएन करिति हीनाहियं च विवरीयं ।
सेजोवहिसंथारेदंडग उच्चारमादीसु ।।। वृ-प्रतिलेखना स्वाध्यायं वा मूलतएव न कुर्वन्ति, यदि वा हीनमधिकं विपरीतं वा विपर्यस्तक्रम कुर्वन्ति । तत्र येषु स्थानेषु प्रतिलेखना संभवति तानि स्थानान्युपदर्शयति । शय्योपधिसंस्तारकदंडकोच्चारादिषु ।इयमत्रभावनाशय्यावसतिस्तस्याः प्रत्युपेक्षणंमूलतएवनकुर्वन्ति । यदिवाहीनमधिकं वाकुर्वन्ति ।अथवायःशय्यायाः प्रत्युपेक्षणाकालस्तस्मिन्न कुर्वन्ति, किन्तुकालातिक्रमेण, एवमुपधेः संस्तारकस्य दण्डकादेश्च भावनीयं । तथा उच्चारादिभूमीं न प्रत्युपेक्षन्ते हीनमधिकं वा यदि वा कालातिक्रमेणप्रत्युपेक्षन्तइति, स्वाध्यायमपिमूलतएव नकुर्वन्तियदिवा अप्रस्थापितेकुर्वन्ति, अथवा हीनमधिकं वा कालिकं कालतः कुर्वन्ति यदि वा कालिकवेलायामत्कालिकमुत्कालिकवेलायां कालिकमिति । संप्रत्यावश्यकादिद्वारत्रितयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org