________________
उद्देशकः १, मूलं: १९, [भा. ६४०]
२२३ द्वयोः संसक्तेउपाश्रये वृष्टिकायेचनिपततिअसंयमदोषौसंयविराधनारूपी दोषौ ।तथा हि-संसक्तत्वे दुप्रत्येक्षणीया वसतिरिति तत्रावस्थाने स्फुटा संयमविराधना, तथावृष्टिकायेऽपि निपतति केषुचित प्रदेशेषु वसतिर्गलतीति तत्रापि संयमविराधना अपकायसंयमविराधनासंभवात् । अन्यच्च वृष्टिकाये निपतति उपधिरपकायेन स्तीम्पतेस्तीभितेन चोपधिना शरीरलग्नेन रात्रौ निद्रा नायाति निद्राया अभावे चअजीर्णदोषः । तस्मात्संसक्तायां वसतौ वृष्टिकायेचनिपतति नियमतोभि गन्तव्या अभिशय्येति तदेवमुक्तं गन्तव्यकारणं । तथा चाह[भा.६४१] दिढे कारणगमनंजइयगुरुवच्चएतओ गुरुगा।
ओराल इत्थपेल्लणसंका पञ्चत्थिया दोसा ।। वृ-दृष्टं उपलब्ध भगवदुपदेशतः पूर्वसूरिभिः कारणे अस्वाध्यायादिलक्षणे अभिशय्यायां गमनं । तत्रयद्येवं दृष्टे कारणगमने गुरुरभिशय्यामभिनषेधिकीवाव्रजेत् । ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, । कोदोषो गुरुगमने इतिचेदत आह-उरालेत्यादि आचार्यः प्राय उदारशरीरोभवेत् । सहाया अपिचकथमपितस्य स्तोका अभवन् ।ततः काश्चन स्त्रियः सहायादीनस्थापयित्वा हृदयादिना प्रेरयेयुः प्रेरणेनाचार्यमुपसर्गयेयुः । अन्यच्चशय्यातरादीनांशङ्कासमुपजायते ।तथा किंवसतावाचार्यो नोषितः नूनमगारी प्रतिसेवितुंगत इति यदि वा प्रत्यर्थिकः प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुपलभ्य विनाशयेयुस्तत एवमाचार्यगमने दोषास्तस्मात्तेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं । किन्त्वेतैरपिनगन्तव्यम् ।केतेएते इत्याह[भा.६४२] गुरुकरणेपडियारी, भएणंबलवं करेज जे रक्खं ।
कंदप्पविणही वाअचियत्तो ठाणदुद्दोवा ।। वृ- गुरोराचादिः करणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकीमात्रकादिसमर्पका विश्रामकाश्चतैर्नगन्तव्यम् । तेषांगमनेगुरोः सीदनात्तथा भयेनपश्चात्वसतावपान्तरालेऽभिशय्यायां वा तस्करादिसमुत्थेन भयेन सर्वैरपि साधुभिर्नगन्तव्यमात्मसंयमविराधनादोषप्रसङ्गात् । तथा यो बलवान् गुर्वादीनां तस्करादिभ्यो रक्षां करोतितेनापिन गन्तव्यम् । तद्गमने गुर्वादीनामपायसम्भवात् । तथा यः कन्दर्पः कन्दर्पशीलो यश्च विग्रही यथा तथा वा राटिकरणशीलः यो वा यत्र गम्यते तत्र शय्यातरादीनांकैश्चिदपिकारणैः पूर्ववैरादिभिरवियत्तोत्तिअप्रीतोयश्चस्थानदुष्टः पुरादिदुष्टः एतैरपिसर्वैर्न गन्तव्यं, प्रवचनोड्डाहात्मविराधनादिदोषप्रसङ्गात् । यदि कथमपि ते गच्छन्ति ततो बलादाचार्यादिभिवारयितव्याः इति ।अथकारणेसमुत्पत्रेतेषां गच्छतांको नायकः प्रवर्तयितव्यः? उच्यते[भा.६४३] गंतव्वगणावच्छेदपवत्तिथैरेयगीयभिक्खूय ।
___ एएसिं असतीए अगीए मेरकहणंतु ।।। वृ- कारणेऽस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गन्तव्यमभिगन्तव्यमभिशय्यादि तेषां च गच्छतां नायकः प्रवर्तिनीयो गणावच्छेदको वक्ष्यमाणस्वरूपः तदभावे प्रवर्ती, सोऽपि वक्ष्यमाणस्वरूपः तदभावे स्थविरस्तस्याप्यभावे गीतभिक्षुर्गीतार्थः सामान्यव्रती । एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तः प्रवर्तनीयः । केवलं तस्मिन्न गीते अगीतार्थे 'मेरकहणं तु' इति मर्यादया समाचार्याः कथनं यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते । नमस्कारपौरुष्यादिकं च प्रत्याख्यानं यत् यस्मै दातव्यमित्येवमादि सर्वं कथ्यते इति भावः । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org