________________
२२०
व्यवहार -छेदसूत्रम्-१.१/१९ बालो दह्येत् । अन्यश्च प्रविशन् ततस्तदुभयनिमित्तमापद्यते प्रायश्चित्तं, लोके च महानवर्णवादः गतमग्निदाहद्वारमधुनास्त्रीनपुंसकद्वारमाह[भा.६३०] इच्छी नपुंसगाविय उमत्तणतो तिहाभवे दोसा ।
अभिधाय पित्ततोवा मुच्छाअंतो व बाहिंव ।। वृ- स्त्रियो नपुंसका वा अवमत्वेन हीनत्वेन स्तोकाः साधवो वसतौ तिष्ठन्ति परिणतव्रताश्चान्यत्र गता वर्तन्ते इति ज्ञात्वा समागच्छेयुस्तदागमने च त्रिधा आत्मपरोभयसमुत्थत्वेन दोषाः स्युः । तथा हि-यत्स्त्र्यादिकमुपलभ्यस्वयंक्षोभमुपयन्तिसाधवः, एष आत्मसमुत्थोदोषः । यत्पुनः स्वयमक्षुभ्यतः साधून् बलात् स्यादिकं क्षोभयति, एष परसमुत्थः । यदा तु स्वयमपि क्षुभ्यन्ति स्त्र्यादिकमपि च क्षोभयति, तदा उभयसमुत्थ इति, मूर्छाद्वारमाह-अभिघातेत्यादि वसतेरन्तस्थितस्य वसतिपालस्य कथमपिजराजीर्णत्वादिना पतत्यांवसतौ काष्टादिभिः शरीरस्योपरि निपतद्भिः बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा तरुशाखाया वा अभिघातेन मूर्छा भवेत् । उपलक्षणमेतत् । अनागाढा आगाढावा परितापना स्यात् । यदिचावसत्तेरन्तर्बहिर्वा व्यवस्थितस्यपित्ततः पित्तप्रकोपतो मूर्छाभवेत् ।ततएकाकिनःसतस्तस्यकोमूर्छामुपशमयेत् । ततस्तन्निष्पन्नप्रायश्चित्तसंभवः प्रभूतश्च जनापवादः, तदेवंपश्चान्मुक्तानांवसतिपालानां दोषा अभिहिताः; सम्प्रतिये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाह[भा.६३१] जत्थ वियतेवयंती अभिसेजंवा निसीहियं वा वि ।
तत्थ विय इमे दोसा होतिगयाणंमुणेयव्वा ।। वृ-यत्रापि च विविक्ते प्रदेशे ते निष्कारणगामिनो मिशय्यामभिनषेधिकी वा व्रजन्ति । तत्रापि तेषां गतानामिमे वक्ष्यमाणा दोषाभवन्ति ज्ञातव्याः । तानेवाभिधित्सुरिगाथामाह[भा.६३२] वीयार तेन आरक्खि तिरिक्खा इत्थीओ नपुंसाय |
सविसेसतरा दोषा दप्पगयाणंहवंतेते ।। वृ- कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां तथा स्तेनाशङ्कायामारक्खित्ति आरक्षकशङ्कायां तथा तिरश्चां चतुष्पदादीनां संभवे तथा स्त्रियो वा दत्तसङ्केतास्तत्र तिष्ठन्ति । नपुंसका वादत्तसङ्केत्तास्तत्रतिष्ठन्तिइत्याद्याशङ्कायांएतेवक्ष्यमाणाः सविशेषतरा दोषादर्पगतानां निःकारणगतानां भवन्ति । तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याह[भा.६३३ अप्पडिलेहियदोसाअविदिन्नेवाहवंतिउभयंपि।
वसही वाधाएणवि य एत्तमनंतेय दोसाउ।। वृ-यदिनामते दर्पगताः कथमप्यचक्षुर्विषयवेलायां गताभवेयुः । ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासु ये दोषा ओघनिर्युक्तौ सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्तव्याः, तथा विकालवेलायां गमने यदि कथमपि शय्यातर उच्चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणेभवन्ति दोषाः । तथा हि-यदिअननुज्ञातेऽवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात् । यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधूनामिति अथवा कथमप्यलाक्षणिकतया वसतेरभिशय्यारूपायाव्याघातोभवेत् । ततोरात्रौ मूलवसतियागच्छतांतेन श्वापदादिभिरात्मविराधना
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org