________________
२१६
व्यवहार - छेदसूत्रम् - १- १/१९ आपुच्छित्ता ते एगंतओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइतवाए, थेराय गृहं से नो वियरिजा एवं ह कप्पइ अभिनिसेज्जं वा अभिनिसीहियं वा चेतेतए । थेराव हंसे नो वितरेञ्जा एवं हं नां कप्पइ एगंतओ अभिनिसेवा अभिनिनिसीहियं वा चेतंतए । जो नो थेरे हिं अवितिण्हं अभिनिसिजंवा अभिनिसीहिय वा चेतेति-से संतरा छेदे वा परिहारेवा ||
वृ. बहवे पारिहारिया इत्यादि । अथ कोऽस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धः ? उच्यते - इहानन्तरसूत्रे परिहारतप उक्तं परिहारश्च परिहर्तव्यापेक्षया प्रतिषेध्यानान्तरीयकत्वात् । ततः परिहारग्रहणेन परिहारोऽप्याक्षिप्तस्तत्र ये परिहारेण चरन्ति तेपरिहारिका इतरे वा पारिहारिकाः । पूर्वसूत्रं च पारिहारिकविषयमतस्तत्प्रकरणानुरोधत इदं पारिहारिकापारिहारिकविषयं सूत्रं पठन्ति । अथवा पूर्वसूत्रे पारिहारिकस्य सामाचारी उक्ता । सा च न निरवशेषा किन्तु शेषमवतिष्ठते । तच्चापारिहारिकाणामपि साधारणमतस्तत्प्रतिपादनार्थं पारिहारिकापारिहारिकविषयं सूत्रमुक्तवान् । तथा चाह
[ भा. ६१८ ] पारिहारियाण उ विना हवंति इयरेहि वा अपरिहानी । मेरावसेसकहणं इइमिस्सगसुत्तसंबंधो ||
वृ- पारिहारिका उक्तशब्दार्था न तु नैव इतरैरपारिहारिकैर्विना भवन्ति । परिहारिकस्य अपरिहारिणानान्तरीयकत्वात् । अपरिहारिणो वा इतरैः परिहारिकैर्विना न भवन्ति । अपरिहारस्यापि परिहारानन्तरीयकत्वात् । तत्पारिहारिकसूत्रानन्तरं पारिहारिकापारिहारिकविषयं सूत्रं तथा मेरा मर्यादा सामाचारीत्यर्थः । सा पूर्वसूत्रे पारिहारिकाणामुक्ता किञ्चिच्छेषमपारिहारिकसाधारणमवतिष्ठते । तस्य सामाचार्यविशेषस्य कथनमनेन सूत्रेणारभ्यते क्रियते इति एष मिश्रकसूत्रस्य पारिहारिकापारिहारिकसूत्रस्य पूर्वसूत्रेण सम्बन्धः । अनेन सम्बन्धेनायातस्येयं व्याख्या । बहवस्त्रिप्रभृतयोऽनेके पारिहारिका उक्तशब्दार्थाः बहवोऽपारिहारिका इच्छेयुरेकान्त एकान्ते विविक्तप्रदेशान्तरे वसत्यंतरे वा अभिनिषद्यां अभिरात्रिमभिव्याप्य स्वाध्यायनिमित्तमागता निषीद्रत्यस्यामित्यभिनिषद्या तां वा तथा निषेधः । स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः तेन निवृत्ता नैषेधिकी अभि आभिमुख्येन संयतप्रायोग्यतया नैषेधिकी अभिनैषेधिकी तां चा । इयमत्र भावना । तत्र दिवा स्वाध्यायं कृत्वा रात्रौ वसतिमेव साधवः प्रतियन्ति सा अभिनैषेधिकी । अभिनैषेधिक्यामेव स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषे वसतिमुपगच्छन्ति सा अभिनिषद्येति तामभिनिषद्यामभिनैषेधिकी वाचेतितए इति गुन्तुं तत्र नो नैवमेतेषां पारिहारिकाणामपारिहारिकाणां च कल्पते स्थविरानाचार्यादीन् अनापृच्छ्य एकान्त एकान्ते विवक्ते प्रदेशे वसत्यन्तरे वा भिनिषद्यामभिनैषेधिकी वा गन्तुं, उच्छ्रासनिःश्वासव्यतिरेकेण शेष साधुव्यापाराणां समस्तानामपिगुरुपृच्छाधीनत्वात् । तदेवं प्रतिषेधसूत्रमभिधाय सम्प्रति विधिसूत्रमाह'कप्पतिगृहं थेरे आपुच्छित्ता' इत्यादि सुगमं । इह पारिहारिका नाम आपन्नपरिहारतपसोऽभिधीयन्ते । तत्र चोदकः प्राह
[ भा. ६१९ /
"
पुव्वंसि अप्पमत्तो, भिक्खू उववन्नितोभयंतेहिं । एक्की व दुवे होजा बहुया उकहं समावन्ना ।।
बृ- पूर्वस्मिन्कल्पनाम्नि अध्ययने भिक्षुरप्रमत्तो भदन्तैः परमकल्याणयोगिभिरुपवर्णितः, ततः कथं परिहारतपः प्रायश्चित्तापत्तिर्यतः पारिहारिका भवेयुः । अपिचएको द्वौ वा पारिहारतप आपद्येयातामेकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदोषाणां संभवात् । ये च बहवस्ते च समाप्तकल्पकल्पत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org