________________
२१३
उद्देशकः १, मूलं: १८, [भा. ६०६] [भा.६०६] कयकरणा इयरेयसावेक्खाखलु तहेव निखेखा।
निरवेक्खाजिनमाईसावेक्खा आयरियमादी ।। वृ-एतत्प्रभृतिका गाथायद्यपिप्रागपिव्याख्याता तथापिमूलटीकाकारणापिभूयोव्याख्याता इति तन्मार्गानुसारतः स्थानाशून्यार्थं वयमपि लेशेन व्याख्यामः-तत्र प्रायश्चित्तस्य वहमानकाः पुरुषा द्विविधास्तद्यथा-कृतकरणा अकृतकरणाश्च । तत्रयेषष्टाष्टमादितपोभावितास्तेकृतकरणास्तद्विलक्षणा इतरे।तत्रये कृतकरणास्तेद्विविधास्तद्यथा-सापेक्षाः तथैवखलुनिरपेक्षाः । तत्रये गच्छंशरीरंवापेक्षन्ते तेसापेक्षा, येपुनर्गच्छंशरीरंवानापेक्षन्तेतेनिरपेक्षाः । तत्रनिरपेक्षाजिनादयोजिनकल्पिका आदिशब्दात शुद्धपारिहारिका यथालन्दिकाः प्रतिमाप्रतिपन्नाश्च, एते नियमतः कृतकरणाः । सापेक्षाः त्रिविधा आचार्यादयः, आचार्योपाध्यायाभिक्षवश्चेत्यर्थः । [भा.६०७] अकयकरणा यदुविहा अनहिगहिया अहिगयाओबोधव्वा ।
जंसेवेइ अहिगतो अनहिगएअस्थिरेइच्छा ।। वृ- अकृतकरणा द्विविधा-अनधिगता अधिगताश्च । तत्र येऽग्रहीतसूत्राास्ते अनधिगता गृहीतसूत्रास्त्विधिगताः । तत्र योऽधिगत उपलक्षणमेतत् कृतकरणो धृतिसंहननयुक्तश्च यत्सेवते प्रायश्चित्तस्थानं तस्य तत्परिपूर्ण दीयते ।यः पुनरनधिगतोऽस्थिरोऽधिकृतकरणोधृतिसंहननविहीनश्च तस्य यदापन्नं तद्वा परिपूर्ण दीयते । यदि वा ह्रस्वतरं यद्वा सर्वात्मनाझोषस्तथा चाहानधिगतेऽस्थिरे उपलक्षणमेतत् अकृतकरणेधृतिसंहननविहीनेच गुरोः प्रायश्चित्तदानविधाविच्छा श्रुतोपदेशानुसारतः कदाचित् यदापन्नं तदेव कदाचित् हीनं कदाचित् स्तोकं कदाचित् सर्वथा झोष इति भावः । सम्प्रति पुरुषभेदमार्गणामेव प्रकारान्तरेणाह[भा.६०८] अहवासावेक्खियरेनिरवेक्खो नियम साउकयकरणा ।
इयरे कयाकयाविय थिराधिरा होतिगीयत्था ।। वृ- अथवा द्विविधाः प्रायश्चित्तस्यवहमानकाः पुरुषास्तद्यथा-सापेक्षा इतरे च निरपेक्षास्तत्र ये निरपेक्षास्ते नियमसा उ इति, नियमतः कृतकरणा उपलक्षणमेतत् ततः कृतकरणादिसमस्तगुणोपेता इत्यर्थः । इतरेसापेक्षास्तेत्रिविधा-आचार्योपाध्यायभिक्षुभेदात् । तेप्रत्येकं द्विधास्तद्यथा-कृतकरणा अकृतकरणाश्च । पुनः प्रत्येकं द्विधा-अधिगता अनधिगताश्चगीतार्था अगीतार्थाश्चेत्यर्थः । गाथायां गीतार्थग्रहणमुपलक्षणंतेनागीतार्थाअप्युपात्ताद्रष्टव्याः ।भूयः प्रत्येकंद्विविधास्तद्यथा-स्थिराअस्थिराश्च तत्रयेचरकादिभिर्दर्शनतः परीषहोपसर्गःचरणतोऽतिकर्कशप्रायश्चित्तदानतःस्वभावतो वान चाल्यन्ते ते स्थिरास्तद्विपरीता अस्थिराः ।साम्प्रतंकृतकरणस्वरूपमाहभा.६०९] छठट्टमाइएहिंकयकरणातेय उभयपरियाए ।
अहिगयकयकरणत्तंजोगायतवारिहाकेई ।। वृ-ये उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये च षष्टाष्टमादिभिः परिकर्मितशरीरास्ते कृतकरणा इतरेऽकृतकरणाः ।केचिदाचार्या येऽधिगतास्तेषां नियमतः कृतकरणत्वमिच्छन्ति । कस्मादितिचेदत . आह-जोगायतवारिहा इति, यतस्तैर्महाकल्पश्रुतादीनामायता दीर्घकालायोगा व्यूढाः । [भा.६१० सव्वेसिं अविसिवा आवत्ती तेन पढमयामूलं ।
सावेक्खेगुरुमूलंकयाकएहोइच्छेदोउ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org